________________
भभिधानचिन्तामणौ-. सर्व मूषति सर्वमूषकः । यदाह-कालः पचति भूतानि कालः संहरते प्रमाः इति ॥ ५ ॥ ४० ॥
कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविमेदतः। सागरकोटिकोटीनां विंशत्या स समाप्यते ॥ ४१॥ अवसर्पो भावानां पतत्प्रकर्षता, सोऽस्यामस्ति अवसर्पिणी ॥१॥ उत्सर्पो भावानामेव रोहत्प्रकर्षता, सोऽस्यामस्ति उत्सर्पिणी ॥ २ ॥ तयोविभेदात्कालस्य द्वैविध्यम् । सागरः सागरोपमं दशकोटीकोटिपल्योपमप्रमाणम् , सागराणां कोटिकोट्यः सागरकोटिकोट्यस्तासां विंशत्या स कालो द्विविधोऽपि परिपूर्यते ॥४१॥
अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः ।
एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम् ॥ ४२ ॥ .. षट् षट्संख्याः । इयूति गच्छन्ति अरा वक्ष्यमाणा एकान्तसुषमादय एकान्तदुःषमान्ताः, अवसर्पिण्यां भवन्ति । त एवेति । एकान्तसुषमादयः विपरीता एकान्तदुःषमाद्या एकान्तसुषमान्ताः, उत्सर्पिण्यां भवन्ति । एवमुक्तप्रकारेण द्वादशभिररै श्वक्रमिव चक्रं कालस्य चक्र कालचक्रं विवर्त्तते परिभ्रमति ॥ ४२ ॥
तत्रैकान्तसुषमाऽरश्चतस्रः कोटिकोटयः।
सागराणां तत्रेति । द्वादशारे कालचके शोभनाः समा वर्षाण्यस्यां सुषमा "निर्दुःसुवेः समसूतेः" ॥२॥३॥५६॥ इति षत्वम् । एकान्तेन सुषमा दुःषमानुभावरहिता एकान्तसुषमा सुषमसुषमेत्यर्थः प्रथमोऽरः। सागराणां सागरोपमानां चतस्रश्चतुस्संख्याः कोटीनां कोटयो भवन्ति । चतुस्सागरोपमकोटाकोटप्रमाण इत्यर्थः ॥
सुषमा तु तिस्रस्तत्कोटिकोटयः ॥ ४३ ॥ सुषमाख्यो द्वितीयोऽरः, तिस्रः सागरोपमकोटिकोटयो भवन्ति ॥ ४३ ।।
सुषमदुःषमा ते दे दुष्टाः समा अस्यां दुःषमा सुषमा चासौ दुःषमा च सुषमदुःषमा, सुषमाऽनुभावबहुला अल्पदुःषमानुभावत्यर्थः । तदाख्यस्तृतीयोऽरः । ते द्वे इति । सागरोपमकोटिकोव्यौ ॥
दुःषमसुषमा पुनः ।