SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ अभिधामचिन्तामणीसरति सरमा “ सूपप्रथि-" ॥ ( उणा-३४७ ) ॥ इत्यम: ॥॥ देवशुनी, विशेषवृत्तिरप्यसौ सामान्येष्वभिधानात् ॥ २॥ विट्चरः शूकरे ग्राम्ये विशं गूथं चरत्यत्ति विट्चर: प्राम्यशूकरः ॥ महिषी यमवाहनः ॥ ३४७ ।। रजस्वलो वाहरिपर्जुलायः सैरिभो महः । धारस्कन्धः कृष्णशृङ्गो नरन्तो दंशमीरुकः ॥ ३४८ ॥ .. रक्ताक्षः कासरो हंसकालीतनय-लालिको। .. . महति महिषः "मह्यविभ्यां टित्-" ॥ (उणा-५४७ ) ॥ इतीषः, मयां शेते पा, पृषोदरादित्वात् ॥१॥ यमेन पात्यते यमवाहनः । यमरथोऽपि ॥ २ ॥ ३४७ ॥. रजोऽस्त्यस्य रजखलः ॥ ३ ॥ वाहानामश्वानां रिपुर्वाहरिपुः ॥ ४ ॥ 'लुलिः सौत्रः' लोलति पङ्के लुलायः "कुलिलुलि-" ॥ (उणा-३७२)॥ इति कायः ॥५॥ सीयते बध्यते सरिभः “सिटिकिभ्यामिभः सैरटिटौ च" || ( उणा-३३२) ॥ इति साधु: सीरिभिर्दन्तीति, सीरिंभः कुटुम्बी तस्यायमिति वा ॥ ६ ॥ महति महः ॥ ७ ॥ धीरः स्थिरः स्कन्धोऽस्य धीरस्कन्धः ॥ ८॥ कृष्णं शृङ्गमस्य कृष्णशृङ्गः ॥९॥ जीर्यति जरन्त: “जविशिभ्यामन्तः " || ( उणा-२१९) ॥ १०॥ दंशेभ्यो भीरुको दंशभीरुकः ॥ ११ ॥ ३४८ ॥ रक्ते अक्षिणी अस्य रक्ताक्षः ॥ १२ ॥ 'कामृङ् शब्दकुत्सायाम' कासते कासर: "ऋछिचटि-"|| ( उणा-३९७ ) ॥ इत्यरः घर्तिः कं जलमासरति वा, ईषत् सरति महाकायत्वादिति वा ॥१३॥ हंसकाल्याखनयो हंसकालांतनयः ॥१४|| लालाः सन्त्यस्य लालिकः, बीह्यादित्वादिकः ॥१५॥ शेषश्चात्र- : .. महिषे कलुषः पिङ्ग कमहो गद्दस्वरः। हेरम्बः स्कन्धाश्च ॥ १५ ॥ : अरण्यजऽस्मिन् गवलः . . .. अस्मिन् महिषेऽरण्यसंभवे गवंत शब्दायते गवलः "मृदिकन्दि-" ॥ ( उणा४६५)॥ इत्यलः ॥१॥ सिंहः कण्ठीरवो हरिः ॥ ३४९ ॥ हर्यक्षः केसरीभारिः पञ्चास्यो नखरायधः । महानादः पञ्चशिखः पारिन्द्रः पत्यरी मृगात् ।। ३५० ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy