SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणीसा गौः शबलादिभिर्वणैरनेकभेदा भवति, यथा शबला, धवलेत्यादि ॥ १॥ पष्ठीही गर्भिणी प्रष्ठं वहति पष्ठौही, गौरादित्वात् डी ॥ १॥ गर्भोऽस्त्यस्या गर्भिणी । 'पष्ठीही पालभिणी' इत्यमरः ॥ २॥ . वन्ध्या वशा बध्नाति प्रसूतिं वन्ध्या "स्थाछामा-" ॥ ( उणा-३५५) ॥ इति यः॥१॥ वष्टि कामयते परं वशा ॥ २ ॥ . वेहद् वृषोपगा ॥ ३३२ ॥ विहन्ति गच्छति वृषं वहत् “संश्चद्वहत्." ॥ ( उणा-८८२)॥ इति कति निपात्यते ॥१॥ वृषमुपगच्छति वृषोपगा। विहन्ति गर्भामति 'वेहद् गर्भोपधातिनी' इत्यमरः ॥१॥३२॥ अवतोका स्रवद्गर्भा अवनुतं तोकमपत्यमस्या अवतोका, अपप्रसववती । ' मृतक्त्सा सवद्गर्भा' : इति माला ॥१॥ ... वृषाक्रान्ता तु सन्धिनी। वृषेण आक्रम्यते वृषाक्रान्ता, सन्धान सन्धा गर्भग्रहणमस्त्यस्याः सन्धिनी, शिखादित्वादिन् । 'अदुग्धा दोहकाले तु सन्धिनी' इति कात्यः । 'सन्धिन्यकालदुग्धा गौषाकान्ता च सन्धिनी' इति तु शाश्वतः ॥ १ ॥ प्रौढवत्सा बष्कयिणी प्रौढो वत्सोऽस्याः प्रौढवत्सा चिरप्रसूतेत्यर्थः, षष्कतेऽतिकामति बष्कयश्चिरकालः "गयहृदया- ॥ ( उणा-३७० )॥ इति निपात्यते, सोऽस्त्यस्या बष्कयिणी ॥१॥ धेनुस्तु नवसूतिका ॥ ३३३॥ धयन्त्येनां धेनुः “धेः शित् ॥ ( उणा-७८७ ) ॥ इति नुः ॥ १॥ नवा प्रत्यमा सूतिरस्या नवसूतिका ॥ ३३३ ॥ ___परेष्टुर्बहुसूतिः स्यात् परमिच्छति परेष्टुः, पृषोदरादित्वात् । बढी सूतिरस्या बहुसूतिः ॥ १॥ गृष्टिः सकृत्प्रसूतिका। गिरति गृष्टिः “यो गृष् च" || ( उणा-६४९) ।। इति तिः ॥ ॥१॥ प्रजने कालयोपसर्या
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy