SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः। ५०७ षण्ढतोचित आर्षभ्यः षण्ढतोचितोऽण्डाकर्षणयोग्य ऋषभाय अयमार्षभ्यः "ऋषभोपानहाञः" ॥ ७ । १ । ४६ ॥ षण्डतायोग्य इत्येके ॥ १॥ कूटो भग्नविषाणकः । कूट्यते कूटः ॥ १ ॥ भग्नं विषाणमस्य भग्नविषाणकः ॥ २॥ इट्चरो गोपतिः षण्डो गोवृषो मदकोहलः ॥ ३२५ ॥ एषणमिट् , इषा चरति इट्चरः स्वेच्छाचारी 'इत्वरः' इत्येके पेतुः ॥ १॥ गवां पतिर्गोपतिः ॥ २ ॥ सनोति सनति वा षण्डः “पञ्चमाड्डः" ( उणा१६८ ) ॥ इति डः, बाहुलकात् सत्वाभावः । शण्डोऽपि ॥ ३ ॥ वृषोऽनाकृष्टाण्डः गौश्चासौ वृषश्च गोवृषः, गवां वृषो बीजनिषेत्तेति वा ॥ ४ ॥ मदेन कोहलो नट इव मदकोहलः ॥ ५ ॥ ३२५ ॥ वत्सः शकृत्करिस्तर्णः वदति मातरं दृष्ट्वा वत्सः “मावावदि-" ॥ (५६४)॥ इति सः ॥ १॥ शकृत् करोति शकृत्करिः "शकृत्स्तम्बाद्-" ॥५। १ । १०० ॥ इति इः ॥२॥ तरति तर्णः “इणुर्विशा-" ॥ (उणा-१८२) ॥ इति णः, तृणुते भक्षयति, तृणातीति वा ॥ ३ ॥ दम्य-वत्सतरौ समौ । दममर्हति दम्यः, दण्डादित्वाद् यः, दम्यते वा ॥१॥ हसितो वत्सो वत्सतरः "वत्सोक्षाश्वर्षभ-" ॥ ७ । ३।५१ ॥ इति तर ट्, हासो द्वितीयवयःप्राप्तिः ॥२॥ - नस्योतो नस्तितः नस्ये नासाकृते रन्ध्रे रज्ज्वादिना उत उम्भितो नस्योतः ॥ १॥ नासिकायां नम्रः, आद्यादित्वात् तस् "नस् नासिकायास्तः क्षुद्रे" ॥ ३ । २ । ९९ ॥ इति नसादेशः, ततो नस्तो नासिकायां क्रियते स्म नस्तितः, ततो "णिज् बहुलं नाम्नः-" ॥३॥ ४ ॥ ४२ ॥ इति णिचि "त्रन्त्यस्वरादेः" ॥ ७॥४।४३ ॥ इत्यन्त्यस्वरादिलोपे च क्तप्रत्ययः, नासायां कृतच्छिद्रो गौरित्यर्थः ॥२॥ षष्ठवाट तु स्याद् युगपार्श्वगः ॥ ३२६ ॥ पञ्चमं षष्ठं वा वर्षे वहति षष्ठवाट , पृषोदरादित्वात् ॥ १॥ युगस्य स्कन्धकाण्डस्य पाश्र्व गच्छति युगपार्श्वगः, हलवोढेत्यर्थः । 'दमनाय योजितः' इत्येके ॥ २॥ ३२६ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy