SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः ।। ५०३ तत्र धौरितकं धौर्य धोरणं धोरितं च तत् ॥ ३१२ ।। बभ्रुककशिखिक्रोडगतिवत् 'धोक्र गतेश्चातुर्ये' धोर्यते धोरितं स्वार्थेऽणि के च धौरितकम् ॥ १॥ यणि धौर्यम् ॥ २ ॥ अनटि धोरणम् ॥ ३ ॥ क्ते धोरितम् ॥ ४ ॥ ३१२ ॥ तच्च नकु. लादीनां गतिसदृशम् ॥ १॥ वल्गितं पुनः । अग्रकायसमुल्लासात् कुञ्चितास्यं नतत्रिकम् ॥ ३१३ ॥ वल्गनं वल्गितम् ॥ १॥ प्लुतं तु लङ्घनं पक्षिमृगगत्यनुहारकम् । प्लवनं प्लुतम् ॥ १॥ लङ्घयते लङ्घनम् ॥ २ ॥ पक्षिणां मृगाणां च गत्यनुयायि ॥३॥ उत्तेजितं रेचितं स्याद मध्यवेगेन या गतिः ॥ ३१४ ॥ उत्तेजनमुत्तेजितम् ॥ १ ॥ रेचनं रेचितम् ॥ २ ॥ ३१४ ॥ उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं कोपादिवाखिलैः पदैः ॥ ३१५ ।। उत्तेरणमुत्तेरितम् ॥ १ ॥ उपनतः कण्ठोऽस्मिन्नुपकण्ठम् ॥ २ ॥ आस्कन्दनमास्कन्दितम् ॥ ३ ॥ ३१५ ॥ आश्वीनोऽध्वा स योऽश्वेन दिनेनैकेन गम्यते । अश्वेनाहा गम्य आश्वीनः “अह्ना गम्येऽश्वादीनञ्" ॥७॥१८५॥१॥ कवी खलीनं कविका कवियं मुखयन्त्रणम् ॥ ३१६ ॥ पञ्चाङ्गी कवते दन्तचर्वणात् शब्दायते कविः "खरेभ्य इः" ॥ ( उणा- ६०६ ) ॥ यां कवी ॥१॥ खलति चलति खलीनं पुंक्लीबलिङ्गः "खलिहिंसिभ्याम्-" ॥ ( उणा- २८६)॥ इतीनः, खे तालुनि लीनं वा । खलिनमपि ॥ १ ॥ कवते कविका "कुशिक-" ॥(उणा- ४५) ॥ इतीके साधुः ॥ ३ ॥ कौति कवियं पुंक्लीबलिङ्गः “कौतेरियः-" ॥ ( उणा- ३७५ ) ॥ ४ ॥ मुखं यन्व्यतेऽनेन मुखयन्त्रणम् ॥ ५ ॥ ३१६ ॥ पञ्च अङ्गान्यवयवा यस्याः पञ्चाङ्गी ॥ ६ ॥ वक्त्रपट्टे तु तलिका तलसारकम् ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy