SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ५०२ अभिधानचिन्तामणौ- .. याति स्वेच्छया ययुः पुंलिङ्गः "हनिया-” ( उणा-७३३) ॥ इति किदुर्द्वित्वं च ॥ १ ॥ अश्वमेधाय हितोऽश्वमेधीयः ॥ २॥ प्रोथमश्वस्य नासिका ॥ ३०९॥ प्रोथते चलति प्रोथं वृत्तो नासान्तःप्रदेशः "कमिग्रगार्ति-" ॥ ( उणा२२५) इति थः पुंक्लीबलिङ्गोऽयम् ॥ १ ॥ ३०९ ॥ मध्यं कश्यं अश्वस्य मध्यप्रदेशः कशामर्हति कश्यम् , तत्र हि कशाघाताधिकारः, दण्डादित्वाद् यः ॥१॥ निगालस्तु गलोद्देशः निगिलत्यनेन निगालः, गलजत्रुसन्धिः “न्युदो प्रः" ॥ ५। ३ । ७२ ॥ इति घञ् , गलस्य उद्देशः प्रदेशो देवमणेरावर्तस्थानम् ॥ १ ॥ __ खुराः शफाः। खुरन्ति विलिखन्ति मां खुराः ॥ १॥ शायन्ते तक्ष्यन्ते शफाः पुंक्लीबलिङ्गः "शफकफ-" ॥ ( उणा-३१६ ) ॥ इति फे निपात्यते ॥ २ ॥ अथ पुच्छं वालहस्तो लाङ्गुलं लूम वालधिः ॥ ३१०॥ पवते दंशादीनुत्सारयति पुच्छं पुंक्लीबलिङ्गः “पीपूङो ह्रस्वश्व" ॥ (उणा१२५)॥ इति छक्, पुतौ छादयतीति पृषोदरादित्वाद्वा ॥१॥ वालानां हस्त इव दंशवारणाद् वालहस्तः, प्रशस्ता वाला इति वा ॥ २ ॥ लगति चलति लाङ्लं पुंक्लीबलिङ्गः "दुकूलकुकूल-" ॥ ( उणा-४९१) ॥ इत्यूले निपात्यते ॥ ३ ॥ लूयते लूम क्लीबलिङ्गः “सात्मनात्मन्-" ॥ ( उणा-९१६) इति निपात्यते ॥४॥ वाला धीयन्तेऽस्मिन् वालधिः पुंलिङ्गः ॥ ५ ॥ ३१० ॥ अपावृत्तपरावृत्तलुठितानि तु वेल्लिते। अपावर्तनमपावृत्तम् ॥ १॥ एवं परावृत्तम् ॥ २॥ लोठनम् लुठितम् ॥३॥ बेल्लनं वेल्लितं तत्र ॥ ४॥ धोरितं वल्गितं प्लुतोत्तेजितोत्तेरितानि च ॥ ३११ ॥ गतयः पञ्च धाराख्यास्तुरङ्गाणां क्रमादिमाः । धौरिताद्या वक्ष्यमाणास्तुरङ्गाणां पञ्च गतयः, ध्रियते गतौ स्थाप्यत आभिरिति धाराः, भिदादित्वादङि निपात्यते ॥ १॥३११ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy