SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ५०० अभिधानचिन्तामणौ- .. हृद्वक्त्रावर्ती श्रीवृक्षकी हयः । हृदये वक्त्रे च प्रशस्ता रोमावर्ताः सन्त्यस्य हृद्वक्त्रावर्ती, श्रीवृक्षको लाञ्छनमस्त्यस्य श्रीवृक्षकी ॥ २॥ पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वषु पुष्पितः ॥ ३०२ ॥ पञ्च हृदयादीनि श्वेतानि भद्राणि कल्याणहेतवोऽस्य पञ्चभद्रः ॥१॥३०२॥ पुच्छोरःखुरकेशास्यः सितैः स्यादष्टमङ्गलः । . . .. अत्र द्वन्द्वगर्ने द्वन्द्वे प्राण्यङ्गसमुदायस्याप्राण्यङ्गत्वात् इतरेतरयोगः पुच्छाद्यैः सितैरष्टभिर्मङ्गलः कल्याणोऽष्टमङ्गलः ॥ १॥ सिते तु कर्क-कोकाही श्वेतवर्णेऽश्वे करोति प्रमोदं कर्कः " कृगो वा" ॥ ( उणा-२३ ) ॥ इति कः ॥ १॥ कोकवदाहन्ति भुवं कोकाहः ॥ २ ॥ खोङ्गाहः श्वेतपिङ्गले ॥ ३०३ ॥ खमुद्गाहते खोलाहः, पृषोदरादित्वात् , श्वेतश्वासौ पिङ्गलश्च श्वेतपिङ्गलस्तत्र ॥१॥ ३०३ ॥ पीयूषवणे सेराहः पीयूषममृतं दुग्धं वा तद्वद् वर्णोऽस्य पीयूषवर्णस्तत्र सीरवदाहन्ति भुवं सेराहः ॥१॥ __ पीते तु हरियो हये । हरिं वर्ण याति हरियः ॥ १॥ कृष्णवर्णे तु खुङ्गाहः खुरैर्गाहते खुङ्गाहः ॥ १॥ क्रियाहो लोहितो हयः ॥ ३०४ ॥ क्रियां न जहाँति क्रियाहः ॥ १ ॥ ३०४ ॥ आनीलस्तु नीलकः नील एव नीलकः ॥ १॥ अथ त्रियूहः कपिलो हयः। त्रीन् यूथति त्रियूहः ॥ १॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy