SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः। ४९९ ५१५)॥ इत्यकः, वडं वलं यं वा वातीति वा, अश्वोऽस्यां वेति नैरुक्ताः ॥ १॥ अश्वतेऽश्वा "अजादेः" ॥२ । ४ । १६ ॥ इत्याप् ॥ २ ॥ प्रसूते प्रसूः स्त्रीलिङ्गः ॥ ॥ वमति गर्भ वामी, ज्वालादित्वात् णे गौरादित्वात् ङी, वातेर्वा "अर्तीरि-" ॥ ( उणा- ३३८ ) ॥ इति मः ॥ ४ ॥ शेषश्चात्र- अश्वायां पुनरवती । किशोरोऽल्पवया हयः ॥ २९९ ॥ कृश्यति वयसा, केशति हेषते वा किशोरः "कोरचोर-" ॥ ( उणा४३४ ) ॥ इत्यारे निपात्यते, अल्पवया वालः ॥ १॥ २९९ ॥ जवाधिकस्तु जवनः जवत्येिवंशीलो जवनः ॥ १॥ रथ्यो वोढा रथस्य यः। . रथं वहति रथ्यः “वहति रथ-" ॥ ७॥ १।२॥ इति यः ॥ १॥ आजानेयः कुलीनः स्यात् आजेन क्षेपेण आनीयते वशीक्रियते आजानेयः ॥ १ ॥ कुलीनः प्रशस्यकुलोद्भवः पारसीकादिः ॥२॥ तत्तद्देशास्तु सैन्धवाः ॥ ३०० ॥ . वानायुजाः पारसीकाः काम्बोजा वाल्हिकादयः । स स देशो जन्मभूमिरेषां तत्तद्देशाः सिन्धु-वनायुज-पारसीक-कम्बोजवाल्हिकदेशेषु भवाः सैन्धवाः वानायुजाः, पारसीकाः, काम्बोजाः, वाल्हिकाः । लक्ष्ये तुं वाल्हीकाः । आदिग्रहणात् तुषारादयः॥ १॥ ३०० ॥ . विनीतस्तु साधुवाही विनीयते विनीतः सुशिक्षितः साधु वहति साधुवाही " साधौ" ॥५।। १५५ ॥ इति णिन् ॥१॥ ___ दुर्विनीतस्तु शकलः ॥ ३०१॥ - दुर्विनीतोऽनात्तशिक्षः शक्नोति खेच्छया गन्तुं शूकलः " मुरल-" ॥ ( उणा-४७४ ) ॥ इत्यले निपात्यते ॥ १॥ कश्यः कशाहः कशामर्हति कश्यः, दण्डादित्वाद् यः ॥१॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy