SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ४९७ हिञ्जीरश्च पादपाशः I शृणोति बन्धेन शृङ्खलः त्रिलिङ्गः “श्रो नोन्तो ह्रस्वश्व" ॥ ( उणा - ४९८ ) ॥ इति खलः ॥ १ ॥ निगल्यते बध्यतेऽनेनेति निगडः । निगलोsपि ॥ २ ॥ अन्दति बध्नात्यन्दूः ‘“कृषिचमि–” ॥ ( उणा - ८२९ ) ॥ इत्यूः, स्वार्थे केऽन्दुकः "ङयादीदूतः के” ॥ २|४|१०४ ॥ इति ह्रस्वः || ३ || हिनस्ति हिञ्जीरः "जम्बीर - " ॥ ( उणा - ४२२ ) ॥ इतीरे निपात्यते । निगडादयः पुंक्लीबलिङ्गाः ॥ ४ ॥ हस्तिनः पादस्य पाशो बन्धनं पादपाशः ॥ ५ ॥ वारिस्तु गजबन्धभूः वार्यतेऽनया वारिः स्त्रीलिङ्गः "स्वरेभ्य इः " ॥ ( उणा - ६०६ ) ॥ गजानां बन्धनाय ग्रहणाय भूर्गर्ता गजबन्धभूः ॥ १ ॥ २९५ ॥ त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च । त्रयः पादा अस्यां त्रिपदी गात्रयोरिति द्वयोरग्रजङ्घयोः, एकस्मिन्नपरे इति पश्चिमजङ्घायां च गजस्य बन्धनमित्यर्थः ॥ १ ॥ तोत्रं वेणुकं तुद्यतेऽनेन तोत्रं "नीदाम्बू - " ॥ ५।२।८८ ॥ इति त्रट् ॥ १ ॥ वेणुमयं वेणुक्रम् ॥ २ ॥ आलानं बन्धस्तम्भः आलीयते बध्यतेऽस्मिन्नालानम्, गजस्य बन्धनाय स्तम्भो बन्धस्तम्भः ॥ १ ॥ अङ्कुशः सृणिः ॥ २९६ ॥ अङ्कते दम्यतेऽनेन अङ्कुशः पुंक्कीबलिङ्गः " मस्ज्यङ्किभ्याम् -” ॥ ( उणा५३८ ) ॥ इत्युशः ॥ १ ॥ सरत्यनया सृणिः पुंस्त्रीलिङ्ग: "ऋतूटसृकु - " ॥ ( उणा - ६३५ ) ॥ इति कित् णिः ॥ २ ॥ २९६ ॥ अपष्ठं त्वङ्कुशस्याग्रं अपकृष्टं तिष्ठत्यपष्ठं "गोऽम्बाम्ब - " ॥ २|३ | ३० ॥ इति षत्वम् ॥ १ ॥ यातमङ्कुशवारणम् । यात्यनेन यातं, यततेऽनेन गन्तुमिति वा अङ्कुशेन वारणम् ॥ १ ॥ निपादिनां पादकर्म तं पादयोः कर्म पादसंज्ञा यमनं यतम् ॥ १ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy