________________
४९६
अभिधानचिन्तामणा- .. "तत्रारक्षविताने द्वे विद् द्वौ श्रवणे गतौ ।
प्राक् पश्चाच्च तिर्यक् च षड्भेदाङ्कुशवारणा ॥१॥" "पृका-" ॥ (उणा- ७२९) ॥ इति किदुः, पुंलिङ्गोऽयम् ॥ १॥ २९२ ॥
वातकुम्भस्तु तस्याधः तस्य विदोरधो भागः वातपूर्णः कुम्भ इव वातकुम्भः ॥ १ ॥
वाहित्थं तु ततोऽप्यधः । ततोऽपि वातकुम्भादधो भागः, वाह्यतेऽनेनाङ्कशनोदनया वाहित्थं "पथयूथ-" ॥ ( उणा- २३१)॥ इति निपात्यते, मदवाहिनि स्थाने तिष्ठतीति वा पृषोदरादित्वात् , वाह्यस्थापभ्रंशोऽयं वा ॥ १ ॥
वाहित्थाधः प्रतिमानं वाहित्थस्याधोभागो दन्तमध्यमित्यर्थः प्रतिमीयते प्रतिक्षिप्यतेऽनेन प्रतिमानं "मिग्मीगोऽखलचलि” ॥ ४ । २ । ८ ॥ इत्यात्वम् ॥ १॥
पुच्छमूलं तु पेचकः ॥ २९३ ॥ ..
पुच्छस्य मूलं पुच्छमूलम् , पुच्यते घातेन पेचकः "कीचक-"॥ (उणा३३) ॥ इत्यके निपात्यते ॥ १ ॥ ॥ २९३ ॥
दन्तभागः पुरोभागः दन्तयोर्भागो दन्तभागः, गजस्याग्रभागः ॥ १ ॥
पक्षभागस्तु पार्श्वकः । ..., पक्षयोर्भागः पक्षभागः, गजस्य पाश्र्वप्रदेशः ॥ १॥
. पूर्वस्तु जङ्घादिदेशो गात्रं स्यात् . हस्तिनः पूर्वः पादजङ्घादिभागः, गच्छत्यनेन गात्रं स्त्रीक्लीबलिङ्गः ॥१॥ __ पश्चिमोऽपरा ॥ २९४ ॥
गजस्य पश्चाभागः, अपरभागभवत्वादपरा स्त्रीक्लीबलिङ्गः, जपादित्वाद् वत्वेऽवराऽपि ॥ १ ॥ २९४ ॥
बिन्दुजालं पुनः पद्मं बिन्दूनां जालं बिन्दुजालम् ; तारुण्ये हि हस्तिनो देहे रक्ता बिन्दवः स्युरिति, पद्ममिव पद्मं रक्तत्वात् ॥ १॥
शृङ्खलो निगडोऽन्दुकः।