SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । अस्य करस्याप्रभागः पुष्यत्यनेन पुष्करम्, पुष्करसदृशं वा ॥ १ ॥ अङ्गुलिः कर्णिका गजस्याङ्गुलिः, किरत्यनया कर्णिका " कुशिक - " ॥ ( उणा - ४५ ) ॥ इतीके निपात्यते, कर्णिकेव वा कर्णिका ॥ १ ॥ दन्तौ विषाणौ हस्तिनो दन्तौ, वेंवेष्टि आभ्यां विषाणौ त्रिलिङ्गः " कृपिविषि-” ॥ ( उणा१९१ ) ॥ इत्याणक ॥ १ ॥ स्कन्ध आसनम् ॥ २९० ॥ हस्तिनः स्कन्धः, आस्यतेऽस्मिन्नासनम् ॥ १ ॥ २९.० ॥ ४९५ कर्णमूलं चूलिका स्यात् गजस्य कर्णमूलं चोद्यते पार्श्वगमनेऽङ्कुशेनास्यां चूलिका, भिदादिनिपातनादङ्, ततः स्वार्थे कः ॥ १ ॥ ईषिका त्वक्षिकूटकम् । ईषा लाङ्गलकीलिकेव ईषिका ॥ १ ॥ अपाङ्गदेशो निर्याणं निर्यात्यश्रु अनेन निर्याणम् ॥ १ ॥ गण्डस्तु करटः कटः ॥ २९९ ॥ करोति मदं करटः "दिव्यवि - " ॥ ( उणा - १४२ ) ॥ इत्यटः ॥ १ ॥ कति वर्षति मदं कटः ॥ २ ॥ २९१ ॥ अवग्रहो ललाटं स्यात् अवगृह्यतेऽङ्कुशेनावग्रहः ॥ १ ॥ २ ॥ आरक्षः कुम्भयोरधः । आरक्ष्यते आरक्षः ॥ १ ॥ कुम्भौ तु शिरसः पिण्डौ कुम्भाकृती मांसपिण्डौ कुम्भौ ॥ १ ॥ कुम्भयोरन्तरं विदुः ॥ २९२ ॥ वेत्ति संज्ञामस्मादङ्कुशस्थानाद् विदुः, यत् पालकाप्यः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy