________________
४९२
अभिधानचिन्तामणौ- ...
करोऽस्त्यस्य करी ॥ ५ ॥ न एकेन पिबति अनेकपः ॥ ६॥ मन्यते मातङ्गः । "मनेर्मत्-मातौ च” ॥ (उणा-३००)॥ इत्यङ्गः, मतङ्गस्यायमिति वा, माततीति वा, मतङ्ग एव वा स्वार्थेऽण् ॥ ७ ॥ वारयत्यरीन् वारणः ।। ८॥ महांश्वासौ मृगश्च महामृगः ॥ ९ ॥ साम वेदो योनिः कारणमस्य सामयोनिः॥ १० ॥ स्तम्बे तृणे रमते स्तम्बेरमः “शोकापनुद-" ॥ ५। १ । १४३ ॥ इति के साधुः
॥ ११॥ द्वौ रदावस्य द्विरदः ॥ १२ ॥ स्यन्दते मदेन सिन्धुरः “श्वशुर.॥ ( उणा- ४२६) ॥ इत्युरे निपात्यते, सिन्धुर्मदोऽस्यास्तीति वा मध्वादित्वाद् रः॥ १३ ॥ नगे भवो नागः, न न गच्छति वा ॥ १४ ॥ दन्तावस्य स्तो दन्ती, कृष्यादित्वाद् बलचि दन्ताबलः "बलच्यपित्रादेः” ॥ ३ । २ । ८२ ॥ इति दीघः ॥ १५ ॥ १६ ॥ करटः कपालोऽस्त्यस्य करटी ॥ १७ ॥ कुजति कुञ्जरः पुंक्लीबलिङ्गः "जठर-" ॥ (उणा-४०३) इत्यरे निपात्यते, कुजौ हनू दन्तौ वा अस्य स्त इति वा मध्वादित्वाद् रः, को जीर्यतीति वा, पृषोदरादित्वात् ॥ १८ ॥ कुम्भावस्य स्तः कुम्भी ॥ १९ ॥ पीयते पीलुः “पीङः कित्" ॥ ( उणा- ८२१)॥ इति लुः ॥ २० ॥ ॥ २८३ ॥ एति इभः “इणः कित्" ॥ ( उणा- ३२८ ) ॥ इति भः ॥ २१ ॥ करोति प्रमोदं करेणुः, स्त्रीध्वजोऽपि पुंस्त्रीलिङ्गः “कृहृभू-" ।। ( उणा७७२) ॥ इत्येणुः, करेणुः सिन्दूररजोऽस्य वा ॥ २२ ॥ गर्जति गर्जः ॥ २३ ॥
शेषश्चात्रअथ कुञ्जरे।
पेचकी पुष्करी पद्मी पेचिलः सूचिकाधरः । विलोमजिह्वोऽन्तःखेदो महाकायो महामदः ।। सूर्पकर्णो जलाकाको जटी च षष्टिहायनः।।
असुरो दीर्घपवनः शुण्डालः कपिरित्यपि ॥ · · ·अस्य स्त्री धेनुका वशाऽपि च ।
अस्य हस्तिनः स्त्री हस्तिनीत्यर्थः, धयन्त्येनां धेनुः, के धेनुका ॥१॥ वष्टि कामयते वशा ॥२॥
शेषश्चात्र
वशायां वासिता कर्णधारिणी कणिकाऽपि च ॥
भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ॥२८४ ॥ भद्रः सर्वलक्षणकल्याणत्वात् ॥ १॥ मन्दो मन्दसत्त्वात् ॥ २॥ मृगो मृग इव हीनसत्त्वत्वात् ॥ ३ ॥ मिश्रः संकीर्णजातिः ॥ ४ ॥ २८४ ॥
कालेऽप्यजातदन्तश्च स्वल्पाङ्गश्चापि मत्कुणौ । माद्यन् कुणति मत्कुणः, द्वयोरेकशेषे मत्कुणौ ॥ १॥ .