________________
४९०
अमिधानचिन्तामणौ
मक्षिकाभिः कृतं माक्षिकं "नाम्नि मक्षिकादिभ्यः" ॥६।३.१९३॥ इत्यण् , आदिग्रहणात् पौत्तिकादि; यद्वाचस्पतिः
"पौत्तिक-भ्रामर-क्षौद्र-दालौ-हालक-माक्षिकम् । अध्ये छात्रकमित्यष्टौ जातयोऽस्य पृथग्गुणाः ॥ १॥ तत्र पौत्तिकमुत्तप्तघृताभं विषकीटजम् । भ्रामरं तु भ्रमरजं पाण्डुरं गुरुशीतलम् ॥ २ ॥ क्षौद्रं तु कपिलं दाहि क्षुदानीतं मलावहम् । दालं तु दलज सेव्यं दुर्लभं रूक्षवालकम् ॥ ३ ॥ उद्दालकं तु शालाकं विषजिद् मधुराम्लकम् । माक्षिकं तु मधु ज्येष्ठं विरूक्षं तैलवर्णकम् ॥ ४ ॥ अयं तु पूज्यमापाण्डु मनाक् तिक्तं सवालकम् ।
छात्रं त्वेकान्तमधुरं सर्वाध्ये राजसेवितम् ॥ ५॥” इति ॥ मन्यतेऽभिलष्यते मधु क्लीबलिङ्गः, पुंस्यपि वैजयन्ती, यदाह- 'मधुलं तु मधुनाऽत्री मधुकं तत्पुरातनम्' इति ॥ १ ॥
- मधूच्छिष्टं तु सिक्थकम् । ___ मधुनोच्छिष्टं कल्को मधूच्छिष्टं मदनाख्यम् ॥ १॥ सिच्यते सिक्थं "नीनूरमि-" ॥ ( उणा- २२७ ) ॥ इति कित् थः ॥ २ ॥
चर्वणा मक्षिका नीला नीलवर्णा मक्षिका चर्वति चर्वणा, नन्द्यादित्वादनः, वृणोतीति वा "चिकणकुक्कण-" ॥ ( उंणा- १९० ) ॥ इति साधुः ॥ १ ॥
पुत्तिका तु पतङ्गिका ॥ २८० ॥ पुतं कुत्सितं तनोति पुत्तिका "कुशिक-" ॥ ( उणा- ४५)॥ इतके निपात्यते, पुतेर्वा सौत्रस्य "कृतिपुतिलति-" ॥ ( उणा- ७६ ) ॥ इति कित् तिकः ॥ १॥ पतङ्गप्रतिकृतिः पतङ्गिका, अपतं गच्छतीति वा, पृषोदरादित्वात् ॥ २ ॥ २८ ॥
वनमक्षिका तु दंशः । मक्षति मक्षिका, वनस्य मक्षिका वनमक्षिका ॥ १ ॥ दशति दंशः ॥ २ ॥
- दंशी तज्जातिरल्पिका तजातिर्देशजातीयाऽल्पिका दशति दंशी ॥ १ ॥
तैलाटी वरटा गन्धोली स्यात्