SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः ।। १८९ ___ भ्राम्यति पुष्पेषु भ्रमरः "ऋच्छिचटि-" ॥ ( उणा- ३९७ ) ॥ इत्यरः, भ्रमन् रौति वा, पृषोदरादित्वात् ॥ १॥ मधु करोति मधुकृत् , मधुकरोऽपि ॥२॥ बिभर्ति भृङ्गः "भृवृभ्यां नोऽन्तश्च" ॥ ( उणा- ९४ ) ॥ इति किद् गः ॥ ३ ॥ चञ्चति चञ्चूर्यते वा चञ्चरीकः,“सृणीक-" ॥(उणा-५०)।। इतीके निपात्यते ॥४॥ शिला शाल्यं मुखेऽस्य शिलीमुखः, शिला मुखमस्य वा ॥ ५॥ इन्दति कुसुमैरिन्दिदिरः “स्थविर-" ॥ ( उणा-४१७) ॥ इतीरे निपात्यते ॥६॥ अलत्यलिः "कृशृकुटि-" ॥ ( उणा- ६१९ ) ॥ इति णिदिः । अली नकारान्तो वा ॥ ७ ॥ रुदन् लम्बतें रोलम्बः, पृषोदरादित्वात् ॥८॥ द्वौ रेफो नाम्न्यस्य द्विरेफः ॥९॥ एते स्त्रीपुंसलिङ्गाः । भसलो देश्याम् , संस्कृतेऽपि दृश्यते ॥ अस्य षडंहयः ॥ २७८ ॥ अस्य भ्रमरस्य षट् अंहूयश्चरणाः, तेन षडंहिः, षट्पदः, षट्चरण इत्यादि सिद्धम् ॥ १ ॥ २७८ ॥ भोज्यं तु पुष्प-मधुनी अस्य भ्रमरस्य भोज्यं पुष्पं मधु च, तेन पुष्पलिट , पुष्पन्धयः, मधुलिट, मधुपः, मधुव्रत इत्यादि सिद्धम् ॥ १ ॥ २ ॥ खद्योतो ज्योतिरिङ्गणः । खे द्योतते खद्योतः ॥ १ ॥ ज्योतिभिरिङ्गति ज्योतिरिङ्गणः "चिक्कण-" ॥ ( उणा- १९० ) ॥ इत्यणे निपात्यते ॥ २ ॥ शेषश्चात्र खद्योते तु कटिमणिज्योतिमाली तमोमणिः। ... परार्बुदो निमेषाद ध्वान्तचित्रः ॥ - पतङ्गः शलभः पतो गच्छति पतङ्गः "नानो गमः-" ।।५।२।१३१॥ इति खड्डः , पततीति वा 'पतितमि-" ॥ (उणा- ९८) ॥ इत्यङ्गः ॥ १ ॥ शलति शलभः "कृशृगृ." ॥ ( उणा- ३२९) ॥ इत्यभः ॥ २ ॥ क्षुद्रा सरघा मधुमक्षिका ॥ २७९ ॥ क्षुणत्यङ्ग क्षुद्रा ॥ १ ॥ सरति सरधा "सर्तेरघः” ॥ ( उणा- १११)॥ सरति घातयति वा, पृषोदरादित्वात् ॥ २ ॥ मधुनो मक्षिका मधुमक्षिका ॥ ३ ॥ ॥ २७९॥ माक्षिकादि तु मधु स्यात्
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy