SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ૪૮૮ अभिधानचिन्तामणौ माद्यति शोणितेन मत्कुण: "भ्रूण तृण - " ॥ ( उणा - १८६ ) ॥ इति णे निपात्यते ॥ १ ॥ कोल इव कुणति विदारयति कोलकुणः ॥ २ ॥ उद्दशत्युद्देशः 1 ॥ ३ ॥ केटति किटिभः, बाहुलकात् किदिभः, किटिं त्रासं बिभर्त्ति वा "क्वचित्” ॥ ५।१।१७१ ॥ इति डः ॥ ४ ॥ उत्कुणति उत्कुणः ॥ ५ ॥ इन्द्रगोपस्त्वनिरजो वैराटस्तित्तिभोऽग्निकः ॥ २७५ ॥ इन्द्रेण गुप्यते इन्द्रगोपः ॥ १ ॥ अग्निवद् रज्यति अग्निरजः, पृषोदरादित्वात् ॥ २ ॥ वैरेण अटति वैराटः ॥ ३ ॥ तित्तीवद् भाति तित्तििभः “ड्यापो . बहुलम् - " ॥ २।४।९९ ॥ इति हखः ॥ ४ ॥ अग्नेस्तुल्योऽग्निकः ॥ ५ ॥ २७५ ॥ ॥ उक्तास्त्रीन्द्रियाः ॥ चतुरिन्द्रियानाह— ऊर्णनाभस्तन्त्रवायो जालिको जालकारकः । कृमिर्मर्कटको लूता लालाखावोऽष्टपाच्च सः ॥ २७६ ॥ ऊर्णो नाभावस्य ऊर्णनाभः ॥ १ ॥ तन्त्रं तन्तून् वयति तन्त्रवायः ॥ २ ॥ जालमस्त्यस्य जालकः ॥ ३ ॥ जालं करोति जालकारकः ||४|| करोति जालं कृमिः “कृभूभ्यां कित्” ॥ ( उणा - ६९० ) ॥ इति मि: । क्रिमिरपि ॥ ५ ॥ मर्कट इव 'आरोहावरोहणाद् मर्कटकः ॥ ६ ॥ लूते लूता " लूम्रो वा " ॥ ( उणा - २०२ ) ॥ इति कित् तः ॥ ७ ॥ लालां स्रवति लालास्रावः ॥ ८ ॥ अष्टौ पादा अस्य अष्टपाद् ॥ ९ ॥ २७६ ॥ [ कर्णजलौका तु कर्णकीटा शतपदी च सा । कर्णस्य जलौकेव कर्णजलौका ।। १ ।। कर्ण कीटयति कर्णकीटा ॥ २ ॥ शतं पादा अस्या शतपदी ॥ वृश्चिको द्रुण आल्यालिः वृश्चति वृश्चिकः पुंस्त्रीलिङ्गः “पापुलि - " ॥ ( उणा - ४१ ) ॥ इति किंदिकः ॥ १ ॥ द्रुणति द्रुणः । द्रुतोऽपि ॥ २ ॥ आलमनर्थोऽत्रास्ति आली ॥ ३ ॥ अलत्यालिः “कृशृकुटि–” ॥ ( उणा - ६१९ ) ॥ इति णिदिः ॥ ४ ॥ अलं तत् पुच्छकण्टकः ॥ २७७ ॥ अलत्यलम्, तस्य वृश्चिकस्य पुच्छकण्टकस्तत्पुच्छकण्टकः ॥ १ ॥ २७७ ॥ अमरो मधुकृद् भृङ्गश्चञ्चरीकः शिलीमुखः । इन्दिन्दिरोऽली रोलम्बो द्विरेफः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy