________________
अभिधानचिन्तामणी
मुक्ताः स्फुटन्त्यत्र मुक्तास्फोटः ॥१॥ अब्धर्मण्डूकीवाब्धिमण्डूकी ॥२॥ शोचति शुक्तिः स्त्रीलिङ्गः “दृमुषि-' ॥ ( उणा-६५१ ) ॥ इति कित् तिः ॥३॥ .. कम्बुस्तु वारिजः ॥ २७० ॥
त्रिरेखः षोडशावर्तः शङ्खः काम्यते कम्बुः पुंक्लीबलिङ्गः “कम्यमिभ्यां-" ॥ ( उणा-७९९ ) ॥ इति बुः ॥ १॥ वारिणो जातो वारिजः ॥ २ ॥ २७० ॥ तिस्रो रेखा अस्य त्रिरेखः ॥ ३ ॥ षोडश आवर्ता अस्य षोडशावर्तः ॥ ४ ॥ शाम्यति शङ्खः पुंक्लीबलिङ्गः “शभिमनिभ्याम्-" ॥ ( उणा-८४ ) ॥ इति खः, शं सुखं खनति, श्रेयों जनयतीति वा "क्वचित्" ॥५।१।१७१॥ इति डः ॥ ५॥
अथ क्षुद्रकम्बवः।
शङ्खनकाः क्षुल्लकाश्च क्षुद्राः कम्बवः क्षुद्रकम्बवः सूक्ष्मा नद्यादिजाः कृमयः ॥ १॥ शं खनन्ति शङ्खनकाः ॥ २ ॥ क्षुद्यन्ते क्षुल्लकाः "कीचक-" ॥ ( उणा- ३३) ॥ इत्यके निपात्यते ॥ ३ ॥
शम्बूकास्त्वम्बुमात्रजाः ॥२७१ ॥
शाम्यन्ति शम्बूकाः “शम्बूक-" ॥ ( उणा- ६९ ) ॥ इत्यूके निपात्यते । 'शम्बुकोऽपि ॥ १॥ अम्बुमात्रे जायन्तेऽम्बुमात्रजाः ॥ २ ॥ २७१ ॥
कपर्दस्तु हिरण्यः स्यात् पणास्थिक-वराटको । के पर्दते कपर्दः ॥१॥ ह्रियते हिरण्यः पुंक्लीबलिङ्गः ॥२॥ पणाय व्यवहारायास्थ्यस्य पणास्थिकः ॥ ३ ॥ वरमटति वराटः, वियते वा “अनिश-" ॥ ( उणा- १४५)॥ इत्याटः के वराटकः ॥ ४॥ शेषश्चात्र- स्यात्तु श्वेतः कपर्दकः ॥
दुर्नामा तु दीर्घकोशा दुष्टो नामो नमनमस्या दुर्नामा 'दुःसंज्ञा' इत्येके ॥ १ ॥ दीर्घः कोशोऽस्या जलूकाकारत्वाद् दीर्घकोशा, दीर्घा कुश्यतीति वा ॥२॥
॥ उक्ता द्वीन्द्रियाः ॥ - त्रीन्द्रियानाह। पिपीलकस्तु पीलकः ॥ २७२ ॥
अपिपीलति पिपीलकः, पृषोदरादित्वादपेः पिः ॥ १॥ पीलति पीलकः ॥२॥ २७२ ॥