SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः। ४८५ पृथिव्यादीनेकेन्द्रियानभिधाय द्वीन्द्रियानाह- ... नीलङ्गुः कृमिरन्तर्जः शरीरस्यान्तर्भवः कृमिः, नीलति नीलङ्गुः, पुंलिङ्गः “ प्रीकैपै.” ॥ ( उणा७६१ ) ॥ इत्यङ्गुक् ॥ २१ ॥ क्षुद्रकीटो बहिर्भवः । बहिर्भवः क्षुद्रो ह्रस्वः कृमिः, कीट्यति कीटः, पुंस्त्रीलिङ्गः ॥१॥ पुलकास्तूमयेऽपि स्युः उभयेऽन्तर्भवा बहिर्भवाश्च कृमयः पोलन्ति पुलकाः ॥ १॥ कीकसाः कृमयोऽणवः ॥ २६८ ॥ अणवः सूक्ष्माः कृमयः, कुत्सितं कसन्ति कीकसाः, पृषोदरादित्वात् ॥१॥२६॥ काष्ठकीटो घुणः काष्ठोद्भवः कीटः काष्ठकीटः ॥ १ ॥ घुगति घुणः ॥ २॥ गण्डूपदः किञ्चुलकः कुसू । भूलता गण्डा प्रन्थयः पदान्यस्य गण्डूपदः ॥ १॥ किञ्चित् चुलुम्पति किञ्चुलकः "कीचक." ॥ ( उणा-३३)॥ इति अके निपात्यते। किञ्चुलुकोऽपि ॥२॥ कोभूमेः सूते कुसूः, कुं मृदं सूते वा, मृदुत्सर्गात् ॥ ३ ॥ भुवो लतेव भूलता ॥४॥ - गण्डूपदी तु शिली गण्डूः पदान्यस्या गण्डूपदी ॥ १ ॥ शिलति शिली, शिल्याकृतिर्वा ॥ २ ॥ अस्रपा जलौकसः ॥ २६९ ॥ .. जलालोका जलूका च जलौका जलसर्पिणी । असं पिबत्यस्रपा 'विचका' इत्येके ॥१॥ जलमोक आसां जलौकसः स्त्रियां वाबहुवचनान्तोऽयम् ॥ २ ॥ २६९ ॥ जले आलोक्यते । जलालोका, जले आलोकोऽस्या इति वा ॥ ३ ॥ जलति जलूका "मृमन्यज्जि-" ॥ (उणा-५८) ॥ इत्यूकः ॥ ४ ॥ ओकशब्दोऽकारान्तोऽप्यस्ति, जले ओकोऽस्या जलौकाः ॥ ५ ॥ जले सर्पति जलसर्पिणी ॥ ६ ॥ मुक्तास्फोटोऽब्धिमण्डूकी शुक्तिः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy