SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४८४ जभिधानचिन्तामणौं- ... . ॥२६३ ॥ सर्षपवत् पीतवर्णः सर्षपः ॥ १९ ॥ मूलकामा मूलकः ॥ २० ॥ गौरश्वाककन्दाभश्च गौराईकः ॥ २१ ॥ सक्तुप्रतिकृतिः सक्तुकः, सक्तुवच्चूर्णी.. भवनत्वात् ॥ २२ ॥ कर्दमसंभवत्वात् कर्दमः ॥ २३॥ अङ्गोल्लफलाभोऽङ्गोलसारः, पृषोदरादित्वात् ॥ २४ ॥ कलिङ्गदेशे भवः कालिङ्गः, अजस्तनाकृतित्वात् ॥ २५ ॥ शृङ्गमस्त्यस्य शृङ्गिकः, यदाह- 'शृङ्गिकं तु कृष्णवर्णमजनस्तनसमाकृतिः ॥ २६ ॥ मधुसिक्थं मधूच्छिष्टं तत्सदृशत्वाद् मधुसिक्थकः ॥ २७ ॥ २६४ ॥ इन्दति इन्द्रः, इन्द्रशैलभवत्वाद्वा ॥ २८ ॥ लाङ्गुली प्रयोजनमस्य लाङ्गुलिकः, यदाह'लाङ्गुलिकं तूपविषं लाङ्गुलीमूलमेव तत्' ॥ २९ ॥ विरुद्धाः स्फुलिङ्गा अस्य विस्फुलिङ्गः ॥ ३० ॥ बहिरन्तश्च पिङ्गलत्वात् पिङ्गलः ॥ ३१ ॥ गोतमस्यायं गौतमः ॥ ३२ ॥ मुस्तकाभो मुस्तकः ॥ ३३ ॥ दलति दालवः "कैरव-" ॥ ( उणा- ५१९ ) ॥ इत्यवे निपात्यते ॥ ३४ ।। एते सर्वेऽपि स्थावरवनस्पतिभवत्वात् स्थावरा. विषस्य जातयो भेदा इति ॥१॥ एते सर्वेऽपि पुंक्लीबलिङ्गाः' इति वाचस्पतिः ॥ २६५ ॥ ४. कुरण्टाद्या अग्रबीजा अग्रभागो बीजमुत्पतिकारणमेषां अग्रबीजाः, आदिशब्दात्पारिभद्राद्याः ॥१॥ मूलजास्तूत्पलादयः । मूलतः कन्दाजायन्ते मूलजाः, आदिशब्दात् सूरणाद्याः ॥ २ ॥ पर्वयोनय इक्ष्वाद्याः पर्व योनिरेषां पर्वयोनयः, आदिग्रहणात् तृणवंशाद्याः ॥ ३॥ स्कन्धजाः सल्लकीमुखाः ॥ २६६ ॥ . स्कन्धाज्जायन्ते स्कन्धजाः, मुखग्रहणाद् वटाद्याः ॥ ४ ॥ २६६ ॥ शाल्यादयो बीजरुहाः बीजात् सस्याद् रोहन्ति बीजरुहाः, आदिग्रहणात् षष्टिकमुद्गादयः ॥ ५॥ संमूर्च्छजास्तृणादयः । संमूर्च्छनाज्जायन्ते संमूर्छजाः, आदिग्रहणाद् भूच्छत्राद्याः ॥ ६ ॥ उपसंहारमाह-- __ स्युर्वनस्पतिकायस्य षडेता मूलजातयः ॥ २६७ ॥ स्पष्टम् ।। २६७ ॥ . ॥ समाप्तोऽयं वनस्पतिकायः ॥ पिप्पलादिवृक्षजातीनां तु नामशेषोऽस्मदुपज्ञनिघण्टोरवसेयः ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy