________________
४ भूमिकाण्डः ।
४८३
'विडा सौत्रः ' क्ष्वेडते मोहयति क्ष्वेडः ॥ २ ॥ रसयति रसः पुंक्लीबलिङ्गः ॥ ३ ॥ तेजयति तीक्ष्णम् ॥ ४ ॥ गीर्यते रागिभिर्गरलः “मुरलोरल-", ॥ ( उणा - ४७४) ॥ इति साधुः, गरं लातीति वा, पुंक्लीबलिङ्गः ॥ ५ ॥
अथ हलाहलः ॥ २६१ ॥
वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।
सौराष्ट्रकः शौल्किकेयः काकोलो दारदोऽपि च ॥ २६२ ॥ . अहिच्छत्रो मेषशृङ्गः कुष्ठ-वालूक-नन्दनाः ।
कैराटको हैमवतो मर्कटः करवीरकः ॥ २६३ ॥ सर्षपो मूलको गौरार्द्रकः सक्तक कर्द्दमैौ ।
-
अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ २६४ ॥ इन्द्रो लाङ्गुलिको विस्फुलिङ्ग- पिङ्गल-गौतमाः । मुस्तको दालवश्चेति स्थावरा विषजातयः || २६५ ॥
हलति विलिखति जठरं न हलति चेति हलाहलः, यथा - 'कस्य सह्यो हलाहलः ' हालेव हलतीति लक्ष्ये हालाहलः, यथा -
"स्निग्धं भवत्यमृतकल्पमहो कलत्रं हालाहलं विषमिवाप्रगुणं तदेव ।”
हालहलोऽपि यथा- 'काममपायि मयेन्द्रियकुण्डैर्यद्यपि दुष्कृत हालहलैौघः' । एते पुंक्लीबलिङ्गाः ॥ १ ॥ २६१ ॥ वत्सस्येव नाभिरस्य वत्सनाभः ॥ २ ॥ कालस्य वर्णस्य कूटोऽत्र कालकूटः, पुंक्लीबलिङ्गः, कालसम्बन्धी कूटो व्याजो वा ॥ ३ ॥ ब्रह्मणः पुत्रो ब्रह्मपुत्रः, यद् याज्ञवल्क्यः - ' त्वं विष ! ब्रह्मणः पुत्रः सत्ये धर्मे व्यवस्थितः' ॥ ४ ॥ प्रदीपयति प्रदीपनः ॥ ५ ॥ सुराष्ट्रदेशे भवः सौराष्ट्रिकः, अध्यात्मादित्वादिकण् ॥६॥ शुल्किकादेशे भवः शौल्किकेयः, नद्यादित्वादेयण् ॥ ७ ॥ ईषत् कोलति संस्त्यायति काकोलः पुंक्लीबलिङ्गः, काकोल: काकस्तद्वन्मेचको वा ॥ ८ ॥ दरदि सिन्धुदेशे भवो दारदः ॥ ९ ॥ २६२ ॥ अहिच्छत्रदेशे भवत्वादहिच्छत्रः ॥ १० ॥ मेषशृङ्गाकारत्वाद् मेषशृङ्गः, यद्वाचस्पति:- मेषशृङ्गं त्वविश्टङ्गाकृतिः ॥ ११॥ कुष्णाति कुष्ठः, कुष्ठसदृशत्वाद् वा यदाह
"कुष्ठं तु कुष्टसदृशमुप्रगन्धं भ्रमिप्रदम् ||" ॥ १२॥
वालुकाभो वालूकः ।।१३ || नन्दयति नन्दनः || १४ | | किराटके म्लेच्छदेशे भवः कैराटकः ॥ १५ ।। हिमवति भवो हैमवतः ।। १६ ।। मर्कटाभो मर्कटः ॥ १७॥ करवीरमूलजत्वात् करवीरः, यदाह - 'करवीरं त्वश्वसारमूलजं सर्वतो भवम् ॥१८॥