SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ४८१ अथ तेजनः । गुन्द्रो मुञ्जः शरः तेजयति शिनोति वा तेजनः ॥ १॥ गुणैर्दोषा द्रान्त्यस्मिन् गुन्द्रः, पृषो. दरादित्वात् ॥ २ ॥ मुजति वायुना मुजः ॥ ३ ॥ शृगाति पारुष्यात् शरः ॥ ४ ॥ दूर्वा त्वनन्ता शतपर्विका ॥ २५८ ॥ · हरिताली रुहा दूर्व्यते पशुभिः, दूरे वाति वा, पृषोदरादित्वात् ॥१॥ अनन्ता, दूरप्रसरणात् ॥ २ ॥ शतं बहूनि पाण्यस्याः शतपर्विका ॥ ३ ॥ २५८ ॥ हरितां नलित्वमलति हरिताली ॥ ४ ॥ रोहति रुहा ॥ ५ ॥ पोटगलस्तु धमनो नडः । । पोटेन संश्लेषण गलति पोटगलः ॥१॥ 'धभिः सौत्रः' धमत्यन्तःशुषिरत्वाद धमनः ॥ २ ॥ नडत्यर्दयति डलयोरक्ये नडः पुंक्लोबलिङ्गः ॥ ३ ॥ कुरुविन्दो मेघनामा मुस्ता कुरुन् देशं विन्दति कुरुविन्दः ॥ १॥ मेघस्य नामाऽस्य मेघनामा मेघपर्यायः, अम्बुधरत्वात् ॥ २ ॥ मुस्यति खण्डयति मुस्ता त्रिलिङ्गः "शीरी-" ॥ ( उणा.२०१) ॥ इति कित्तः, मुस्तकोऽपि ॥ ३ ॥ गुन्द्रा तु सोत्तमा । २५९ ॥ सा मुस्ता उत्तमा गोदन्तेऽनया गुन्द्रा "खुरक्षुर-" ( उणा- ३९६)॥ इति रे निपात्यते, गुणैर्दोषा द्रान्त्यस्यामिति वा ।। १ ।। २५९ ॥ वल्वजा उलपः वलन्ति वल्वजाः पुंसि बहुवचनान्तः "वलेवान्तश्च वा" ॥ ( उणा- १३३)। इत्यजः ॥१॥ दलते उलपः "विष्टपोलप-" ॥ ( उणा- ३०७) ॥ इत्यपे निपात्यते ॥ २ ॥ अथेक्षुः स्याद् रसालोऽसिपत्रकः । इप्यते इक्षुः पुंलिङ्गः "मस्जीष्यशिभ्यः सुक्” ॥ ( उणा- ८२६ ) ॥ ॥ १॥ रसमलत्यालाति वा रसालः ।। २ ।। अस्याकाराणि पत्राण्यस्थ असि. पत्रकः ॥ ३॥ . भेदाः कान्तार-पुण्ड्राद्यास्तस्य
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy