________________
४८
अभिधानचिन्तामणौ
अश्लेषाभूः शिखी केतुः
अहिना संसृष्ट आहिकः || १ ||३५|| अश्लेषायां भवतीति अश्लेषाभूः ॥२॥ शिखारूपा तेजोलेश्याऽस्यास्ति शिखी “शिखादिभ्य इन् " || ७|२| ४ | ३ ॥ चाय्यते निशाम्यते शुभाशुभमनेन केतुः ॥४॥ शेषश्चात्र
`केतावूर्ध्वकचः ॥
ध्रुवस्तूत्तानपादजः ।
ध्रुवति ध्रुवः “ तुदादिविषिगुहिभ्यः कित्" | ( उणा - ५) ॥ इति अः ॥ १ ॥ उत्तानपादान्नृपतेर्जात उत्तानपादजः यौगिकत्वादौत्तानपादिः, औत्तानपाद इत्यादयः ॥ २ ॥ शेषश्वात्र
ज्योतीरथग्रहाश्रयौ ध्रुवे ॥
,
अगस्त्योऽगस्तिः पीताब्धिर्वातापिद्विड् घटोद्भवः ॥ ३६ ॥ मैत्रावरुणिराग्य और्वशेयाग्निमारुतौ ।
स्तम्भिः सौत्रः । अगं स्तनाति अगस्त्यः । " अगपुलाभ्यां स्तम्भेर्डित्" ॥ ( उणा - ३६३) ॥ इति यः ॥ १॥ अगति कुटिलं गच्छति अगस्तिः “ अगिविलि-"॥ ( उणा - ६६० ) ॥ इत्यादिना अस्तिक् ॥ २॥ पीतोऽब्धिरनेन पीताब्धिः ॥ ३ ॥ वातापिं द्वेष्टि वातापिद्विद् ॥४॥ घटादुद्भवति घटोद्भवः ॥५॥ ३६ ॥ मैत्रावरुणयोरुर्वशीदर्शनाद्रेतः कुम्भे पतितमिति हि प्रसिद्धिः। मैत्रश्च वरुणश्च मैत्रावरुणौ " वेदसहश्रुतावायुदेवतानाम्”॥३॥ २।४१॥ इति पूर्वपदस्यात्वं तयोरपत्यं मैत्रावरुणिः, ऋषिसमुदायस्य ऋषित्वादिञ् ॥६॥ अग्नेरपत्यमाग्नेयः तदंशत्वात् " कल्यग्नेरेयण्” ॥ ६ ॥ १।१७ ॥ इत्येयण् ॥७॥ उर्वश्या अपत्यमौर्वशेयः॥८॥ अग्निश्च मरुच तयोरपत्यमाग्निमारुतः तदंशत्वात् अणि " देवतानामात्वादौ’’॥७|४|२८॥ इत्युभयपदवृद्धौ “ इर्वृद्धिमत्यविष्णौ”॥३।२।४३॥ इति आत्वापवाद इः ॥ ९ ॥ पीताब्ध्यादयो यौगिकाः । शेषश्चात्र
अगस्त्ये विन्ध्यकूटः स्याद्दक्षिणाशारतिर्मुनिः ।
सत्याग्निर्वारुणिः क्वाथिस्तपनः कलशीसुतः ॥ १॥
लोपामुद्रा तु तद्भार्या कौषीतकी वरप्रदा ॥ ३७ ॥
पतिशुश्रूषालोपेषु न मुदं राति लोपामुद्रा ॥ १ ॥ तस्यागस्तेर्भार्या तद्भार्या । कुष्णात्यात्मानं तपसा कुषीतकः “कुषेः कित्” ॥ ( उणा - ८० ) ॥ इतीतकः तस्यापत्यमृष्यणि ङयां च कौषीतकी || २ || वरं प्रददाति वरप्रदा ॥३॥३७॥ ॥ मरीचिप्रमुखाः सप्तर्षयश्चित्रशिखण्डिनः ।