SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः । इत्येवमुक्त्वा भगवान्मुमोच शिश्नेन शुक्रं स च निर्जगाम ॥१॥ मघासु भवति मघाभवः ॥ २ ॥ कवेरपत्यं काव्यः । “ कुर्वादेः " ॥ ६ ॥१॥१००॥ इति ञ्यः, कविरेव वा काव्यः, भेषजादित्वात् व्यण् ॥३ ॥ वष्टीत्युशना “वष्टेः कनस्’॥ ( उणा - ९८५) ॥४॥ भृगोरपत्यं भार्गवः ॥ ५ ॥ कवते कविः । कविजातत्वाद्वा ॥ ६ ॥३३॥ षोडशार्चिषोऽस्य षोडशार्चिः ॥ ७ ॥ दैत्यानां गुरुर्दैत्यगुरुः, यौगिकत्वादसुराचार्य इत्यादयः ॥ ८ ॥ धिष्ण्यः प्राग्वत् ॥ ९ ॥ शेषश्चात्र शुक्रे भृगुः ॥ शनैश्वरः शनिः । छायासुतोऽसितः सौरिः सप्तार्ची रेवतीभवः ॥ ३४ ॥ मन्दः क्रोडो नीलवासाः शनैश्चरति शनैश्चरः॥१॥ श्यति दृष्ट्या जनमिति शनिः “धूशाशीङो हखश्च ॥ (उणा - ६७८ ) ॥ इति निः ॥ २ ॥ छाया आदित्यपत्नी तस्याः सुतश्छायासुतः॥ ३ ॥ असितः कृष्णाङ्गः ॥ ४ ॥ सूरस्यापत्यं सौरिः " तस्येदम्” ॥६।३।१६०॥ इत्यणि सौरोऽपि ॥५॥ सप्तार्चिषोऽस्य सप्तार्चिः ॥ ६ ॥ रेवत्यां भवति रेवतीभवः ॥ ७ ॥ ३४ ॥ मन्दगतित्वान्मन्दः ॥८॥ करोति पीडां क्रामति क्षेत्रं राशिं च चिरेणेति वा क्रोडः । “विहडकहे-” ॥ (उणा-१७२ ) ॥ इत्यादिना डान्तो निपात्यते ॥ ९ ॥ नीलं वासो - Sस्य नीलवासाः ॥ १० ॥ शेषश्चात्र नौ पङ्गुः श्रुतकर्मा महाग्रहः ॥ rasar: कालो ब्रह्मण्यश्च यमः स्थिरः । क्रूरात्मा च ॥ ४७ स्वर्भास्तु विधुन्तुदः । तमो राहुः सैंहिकेयो भरणभूः स्वर्भाति स्वर्भाणुः “पूर्वपदस्थान्नाम्न्यगः ” || २|३|६४ ॥ इति णत्वम् ॥१॥ विधुं तुदति विधुन्तुदः। “बहुविध्वरुस्तिलात्तुदः || ५ | १|१२४ ॥ इति खश् ॥२॥ तमस्कारित्वात्तमः पुंक्लीबलिङ्गः॥३॥ रहति गृहीत्वा चन्द्राक खशरीरं वा राहुः " कुवापाजि - " ॥ ( उणा - १) ॥ इत्यादिना उण् ॥४॥ अभ्रपिशाचग्रहकल्लोलावपि । सिंहिकाया अपत्य सैंहिकेयः “ङयाप्त्यूङ’” :”॥६|१|७०॥ इत्येयण् ॥५॥ भरण्यां भवति भरणीभूः ॥ ६ ॥ शेषश्चात्र अथ राहौ स्यादुपराग उपप्लवः ॥ अथाहिकः ॥ ३५ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy