________________
अभिधानचिन्तामणौ
कत्वाद्भौमो माहेयो धरणीसुत इत्यादयः ॥६॥३०॥ आषाढा उत्तराषाढास्तासु भवति आषाढाभूः ॥७॥ नवार्चिषोऽस्य नवार्चिः॥८॥शेषश्चात्र-भौमे व्योमोल्मुकैकाङ्गौ ॥३०॥
बुधः सौम्यः प्रहर्षुलः ।
ज्ञः पञ्चार्चिः श्रविष्ठाभूः श्यामाङ्गो रोहिणीसुतः ॥ ३१ ॥ बुध्यते बुधः॥१॥ सोमः पिताऽपि देवताऽस्य सौम्यः। “कसोमाट् ट्यण्॥६॥ २।१०७॥ इति ट्यण, यौगिकत्वाच्चन्द्रात्मजः, चान्द्रमसायनिरित्यादयः ॥२॥प्रहृष्यतीति प्रहर्षुल: "हृषिवृति-"॥ ( उणा-४८५) ॥ इत्यादिना उल: ॥३॥ जानातीति ज्ञः॥४॥ पञ्चार्चिषोऽस्य पञ्चार्चिः ॥५॥ श्रविष्ठासु भवति श्रविष्ठाभूः ॥॥ श्याममङ्गमस्य श्यामाङ्गः॥ ७ ॥ रोहिण्याः सुतो रोहिणीसुतः, यौगिकत्वाद्रौहिणेय इत्यादयः ॥ ८ ॥ ३१॥
.. बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः ।
वाचस्पतिर्वादशार्चिर्धिषणः फल्गुनीभवः ॥३२॥
गीर्वृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः । बृहतां पतिवृहत्पतिः इति वा बृहस्पति: “वर्चस्कादिष्ववस्करादयः॥३।२। ४८॥ इति निपात्यते॥१॥ सुराणामाचार्यः सुराचार्यः, यौगिकत्वाद्देवगुरुरित्यादयः ॥ २॥ जीव्यतेऽनेन मृतसञ्जीवनीज्ञत्वाज्जीवः ॥ ३ ॥ अङ्गिरसोऽपत्यत्वाच्चित्रशिखण्डिजः, सप्तर्षिजोऽपि समुदाये प्रवृत्ताश्च शब्दा एकदेशेऽपि प्रवर्तन्त इति न्यायात् ॥४॥ वाचः पतिर्वाचस्पति: “वाचस्पति-"॥३२॥३६॥ इत्यादिना षष्ठीलुबभावे निपात्यते ॥ ५ ॥ द्वादशाऽर्चिषोऽस्य द्वादशार्चिः ॥ ६ ॥ धृष्णोति प्रगल्भते धिषणः । “धृषिवहेरिश्चोपान्त्यस्य" ॥ (उणा-१८९) ॥ इत्यणः । धिषणास्यास्तीति वा ॥ ७ ॥ फल्गुन्यामुत्तरफल्गुन्यां भवति फल्गुनीभवः ॥८॥३२॥ गीश्च बृहती च गीर्बहत्यौ तयोः पतिः गी:पतिबृहतीपतिः ॥ ९ ॥ १० ॥ उतथ्यस्यानुज उतथ्यानुजः॥ ११ ॥ अङ्गिरसोऽपत्यमृष्यणि आङ्गिरसः ॥ १२ ॥ गृणात्युपदिशति गुरुः “कृग्र ऋत उर्च" ॥ (उणा-७३४) ॥इति उः ॥ १३ शेषश्चात्र
गीष्पतिस्तु महामतिः। प्रख्याः प्रचक्षा वाग्वाग्मी गौरो दीदिविगीरथौ ॥
शुक्रो मघाभवः काव्य उशना भार्गवः कविः ॥ ३३ ॥
षोडशाचिर्दैत्यगुरुर्धिष्ण्यः शोचति दानवानिति शुक्रः । रुद्रशुक्रद्वारेण निर्यातत्वाद्वा यद्वामनपुराणे