SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः। पूर्वोत्तरा भद्रपदा इय्यः प्रोष्ठपदाश्च ताः। अजपादो अजो भीमवत् । अजोऽहिर्बुध्नश्च देवते आसामजाहिर्बुध्नदेवताः॥२८॥ पूर्वाश्चोत्तराश्च पूर्वोत्तराः। भद्रौ पादावासां भद्रपदाः। “सुप्रात-''॥७॥३।१२९॥ इत्यादिना डसमासान्तो निपात्यते । यथासंख्यादजदेवता पूर्वभद्रपदाः। अहिर्बुध्नदेवता उत्तरभद्रपदाः । द्वावयवावासां द्वय्यः, ता इति पूर्वभद्रपदा उत्तरभद्रपदाश्च प्रोष्ठपदा उच्यन्ते। प्रोष्ठी गौस्तस्येव पादावासामिति प्रोष्ठपदाः, प्रोष्टौ सारौ पादावासामिति वा ॥ रेवती तु पौष्णं रेवते गच्छति "दृपृ-'॥ (उणा-२०७) ॥ इत्यादिना बहुवचनादतप्रत्यये ड्यां रेवती ॥१॥ पूषा देवताऽस्याः पौष्णं ज्योतिषे क्लीबे रूढम् ॥२॥ . दाक्षायण्यः सर्वाः शशिप्रियाः ॥ २९ ॥ दक्षोऽथ्यते पितृतया आभिरिति अनटि प्रज्ञाद्यणि या "पूर्वपदस्थ ॥२॥३ १६४॥ इति णत्वे च दाक्षायण्यः । दक्षस्यापत्यानि इति इअन्तादायनणि दाक्षायण्य इत्यमरटीका, तत्र च स्त्रीणां युवसंज्ञाया अभावादायनण् चिन्त्यः॥१॥ सर्वा अश्विन्यादयः सप्तविंशतिरपि शशिप्रियाश्चन्द्रदाराः । सर्वा अपि दाक्षायण्यः, शशिप्रियाश्चोच्यन्ते इत्यर्थः ॥ २ ॥ २९ ॥ • राशीनामुदयो लग्नम् अश्नुवते अहोरात्रमिति राशयः, "अशो रश्चादिः” ॥ (उणा-६२२) ॥ इति • इणित् तेषामुदयः प्राप्तकालता लगति क्षितिजे लग्नम् , पुंक्लीबलिङ्गः "क्षुब्धविरिन्ध-" ॥४४७०॥ इत्यादिना शील्यादिक्तान्तो निपात्यते ॥ १॥ मेषप्रभृतयस्तु ते। ते राशयो मेषादयः । यथा-मेषो वृषो मिथुनः कर्कटः सिंहः कन्या तुला वृश्चिको धनुर्मकरः कुम्भो मीन इति ॥ . आरो वक्रो लोहिताङ्गो मङ्गलोऽङ्गारकः कुजः ॥३०॥ . आषाढाभूर्नवार्चिश्व __. आ समन्तादियति नक्षत्रेष्वित्यारः ॥१॥वश्चति कुटिलं गच्छति वक्रः । “ऋज्यजि-"॥ (उणा-३८८)॥ इत्यादिना रक् ॥२॥ लोहितमङ्गमस्य लोहिताङ्गः ॥३॥ मङ्गति मङ्गलः । “मृदिकन्दि-" ॥ (उणा-४६५) ॥ इत्यादिना अलः ॥ ४ ॥ अङ्गति कुटिलं कामति अङ्गारः । “अग्यङ्गि-” ॥ (उणा-४०५) ॥ इत्यादिना आरः । अङ्गानीयर्ति पानत्वादिति वा स्वार्थे क अङ्गारकः ॥ ५॥ कौ पृथिव्यां जातः कुजः, यौगि
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy