________________
४७८
अभिधानचिन्तामणौ- . . तण्डुलेभ्यो हितस्तण्डुलीयः "हविरन्नभेदापूपादेर्यो वा" ॥ ॥१।२९ ॥ इतीयः ॥ १ ॥ तण्डुलानीरयति द्रावकत्वात्तण्डुलेरः ॥ २ ॥ मेघस्येव नादोऽस्माद् मेघनादः ॥ ३ ॥ अल्पं मृणाति हिनस्ति अल्पमारिषः "अमिमृभ्यां णित्" . ॥ ( उणा- ५४९ ) ॥ इतीषः ॥ ४ ॥ २५० ॥
बिम्बी रक्तफला पीलुपी स्यात्तुण्डिकेरिका । बनाति बिम्बी "डीनीबन्धि-" ॥ (उणा- ३२५) ॥ इति डिम्बः ॥ १॥ . रक्तं फलमस्या रक्तफला ॥ २ ॥ पिलोरिव पर्णान्यस्याः पीलुपर्णी ॥ ३॥ तुण्ड्यते तुण्डिकेरी "शतेरादयः" ॥ (उणा-४३२) ॥ इति निपात्यते, के तुण्डिकेरिका ॥४॥
जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ॥ २५१ ॥ जीवतात् जीवन्ती "रुहिनन्दि-" ॥ ( उणा- २२०.) ॥ इत्यन्तः ॥ १॥ जीवत्यनया जीवनी, "क्तेटो-" ॥ ५।३।१०६ ॥ इत्यप्रत्यये जीवा, “बहुलम्" ॥ ५।१।२. ॥ इति करणेऽप्यनीये जीवनीया ॥२॥३॥ ४ ॥ मधु स्रवति मधुस्रवा ॥ ५ ॥ २५१ ॥
वास्तुकं तु क्षारपत्रं
वसन्त्यस्मिन् गुणा वास्तुकं “कञ्चुकांशुक-" ॥ (उणा-५७) ॥ इति साधुः · ॥१॥ क्षीरं पत्रमस्य क्षीरपत्रम् ॥ २॥
पालक्या मधुसूदनी। पालके साधुः पालक्या, पाल्यत इति वा “शिक्यास्याढ्य-" ॥ ( उणा३६४ ) ॥ इति ये निपात्यते ॥ १॥ मधु माधुर्य सूदते मधुसूदनी ॥ २ ॥
रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् ।। २५२ ।।
महाकन्दः अम्लेन रसेनोनो रसोनः, पञ्चरसत्वात् , ययाडि:- 'ऊनोऽम्लेन रसेनेति रसो. नस्तेन कीर्तितः ॥ १॥ लष्यतेऽभिलष्यते लशुनः “लषेः श च"॥(उणा-२८९)। इत्युनः ॥ २॥ पुंक्लीबलिङ्गावेतौ । न रिष्यतेऽरिष्टः ॥ ३ ॥ म्लेच्छानां प्रियः कन्दो म्लेच्छकन्दः ॥ ४ ॥ महौषधम् , रोगजित्त्वात् ॥ ५ ॥ २५२ ॥ महांश्चासौ कन्दश्च महाकन्दः ॥ ६॥
रसोनोऽन्यो गृञ्जनो दीर्घपत्रकः ।
अन्यो द्वितीयो रसोनः, गृज्यते कुत्सितः शब्द्यते गृजनः पुंक्लीबलिङ्गः ॥१॥ दीर्घपत्रमस्य दीर्घपत्रकः ॥ २ ॥
- भृङ्गराजो भृङ्गरजो मार्कवः केशरञ्जनः ॥ २५३ ॥