SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः। अथोद्दालः कोद्रवः कोरदूषकः ॥ २४३ ॥ उद्दाल्यते उद्दालः ॥ १॥ केन अम्भसा उनत्ति क्लिद्यते कोद्रवः ‘कैरव-" ॥ ( उणा- ५१९)॥ इत्यवे निपात्यते, केन उद्रौति वा ॥२॥ कुरन्त्यनेन कोरदूषकः “ कोरदूष-" ॥ ( उणा-५६१)॥ इत्यूषे निपात्यते, कोरं भक्तं दूषयतीति वा ॥ ३ ॥ २४३ ॥ चीनकस्तु काककङ्गुः चीयते चीनः " दिननग्न-" ॥ ( उणा-२६८) ॥ इति ने निपात्यते के चीनकः ॥ १ ॥ काकप्रिया कङ्गुः काककङ्गुः ॥ २ ॥ यवनालस्तु योनलः। जूर्णाह्वयो देवधान्यं जोन्नाला बीजपुष्पिका ।। २४४ ॥ यवस्येव नालमस्य यवनालः ॥१॥ यूयते योनलः " मुरल-" ॥ ( उणा४७४ ) ॥ इत्यले निपात्यते ॥ २ ॥ 'जूचि जरायां' जूर्यते जूर्णः “डीयश्व्यैदितः" ॥ ४ । ४ । ६१ ॥ इति क्तस्य नत्वम्, जूर्ण इत्याह्वयो यस्य जूाह्वयः॥३॥ देवप्रियं धान्यं देवधान्यम् ॥ ४॥ जनाद् नालमस्या जोन्नाला, पृषोदरादित्वात् ॥५॥ बीजाकारं पुष्पमस्या बीजपुष्पिका ॥ ६ ॥ २४४ ॥ शणं भङ्गा मातुलानी स्यात् शणति शणम् ॥ १॥ भज्यते भङ्गा ॥ २ ॥ मानं तोल्यते मातुलानी "मु. मुंचान-" ॥ (उणा-२७८) ॥ इति निपात्यते, मायाः श्रियस्तुलया अनितीति वा ॥३॥ . उमा तु क्षुमाऽतसी। अव्यते उमा “ अवेह्रस्वश्च-" ॥ ( उणा-३४२) ॥ इति किति मे साधुः ॥ १ ॥ क्षौत्यनया भुक्तया क्षुमा "क्षुहिभ्यां वा" ॥ ( उणा- ३४१)॥ इति किद् मः ॥ २ ॥ अतत्यनयाऽतसी “तप्यणि-" ॥ ( उणा- ५६९)॥ इति असः, न तस्यतीति वा ॥३॥ गवेधुका गवेधुः स्यात् गूयते गवेधुका मुन्यन्नं “गुड इधुक-एधुकौ” ॥ ( उणा- ७४ ) ॥ गवीधुकाऽपि ॥ १॥ गवाऽम्भसा एधते गवेधुः, स्त्रीलिङ्गः "भृमृतृ-" ॥ ( उणा७१६) ॥ इति बहुवचनादुः ॥ १ ॥ जर्तिलोऽरण्यजस्तिलः ॥ २४५ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy