SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४७४ अभिधानचिन्तामणौ आढकी तुवरी वर्णा स्यात् आ ढोकते आढकी " कीचक-" ॥ ( उणा-३३ ) ॥ इत्यके निपात्यते । ॥ १ ॥ तूयते तुर्वरी ॥ २ ॥ वर्ण्यते वर्णा ॥ ३ ॥ कुल्मासस्तु यावकः ॥ २४१ ॥ कोलति कुल्मासः अर्धखिन्नो माषादिः " कलिकुलिभ्यां मासक्" ॥ (उणा-५८४)॥ कुन मस्यति परिणमते वा पृषोदरादित्वात् । कुल्माषोऽपि ॥१॥ यौत्यम्भसा यावकः 'धान्यविशेषः' इत्यन्ये ॥ २ ॥ २४१ ॥ . . नीवारस्तु वनव्रीहिः नियतैर्बियते नीवारः, मुन्यन्नत्वात् " नेवुः " ॥ ५। ३ । ७४ ॥ इति घञ् ॥१॥ वनस्य व्रीहिवर्नव्रीहिः ॥ २ ॥ श्यामाक-श्यामको समौ । श्यायते श्यामाकः जघन्यो व्रीहिः “मवाकश्यामाक-" ॥ ( उणा-३७) ॥ इत्याके निपात्यते ॥ १ ॥ "कीचक-" ॥ ( उणा- ३३ ) ॥ इत्यके निपातनात् श्यामाकः ॥ २ ॥ कङ्गुस्तु कङ्गुनी कङ्गुः प्रियङ्गुः पीततण्डुला ॥ २४२ ॥ ___ कायति कङ्गुः "प्रीकैपै-" ॥ ( उणा-७६१)॥ इति कङ्गुः ॥१॥ कङ्गति कङ्गुनी "दिननग्न-" ॥ ( उणा- २६८ ) इति ने निपात्यते ॥ २ ॥ कुत्सितममति क्वङ्गुः "फलिवल्यमेः ॥ ( उणा- ७५८)॥ इति गुः ॥ ३ ॥ प्रीणाति प्रियङ्गुः ॥४॥ पीतास्तण्डुला अस्याः पीततण्डुला । एते स्त्रीलिङ्गाः ॥ ५॥ २४२ ॥ सा कृष्णा मधुका . सा कङ्गुः कृष्णवर्णा मन्यते कल्प्यते मधुका "कञ्चुक-" ॥ ( उणा-५७)॥ इत्युके निपात्यते ॥ १॥ रक्ता शोधिका रक्तवर्णी कङ्गुः, शोधयति शोधिका ॥ १॥ मुसटी सिता। सिता कङ्गुः, मुस्यते खण्डयते मुसटी "कपट-" ॥ ( उणा- १४४ ) ॥ इत्यटे निपात्यते ॥ १॥ पीता माधवी पीतवर्णा कङ्गुः मधुन इवेयं तद्वर्णत्वाद् माधवी ॥१॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy