SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४७२ अभिधानचिन्तामणी घूत्युत्सुरभेः-" ॥॥ ३ । १४४॥ इति इत् समासान्तः, के सुगन्धिकः ॥२॥२३५॥ ... यवो हयप्रियस्तीक्ष्णशूकः यूयते यवः ॥ १॥ हयानां प्रियो हयप्रियः ॥ २ ॥ तीक्ष्णः शूकः किंशारस्य तीक्ष्णशूकः ॥ ३ ॥ तोक्मस्त्वसौ हरित् । असौ यवो हरिन्नीलः, तुज्यते तोक्मः "रुक्मग्रीष्म-" ॥ (उणा-३४६)॥ इति मे निपात्यते ॥ १॥ . मङ्गल्यको मसूरः स्यात् , मङ्गले साधु मङ्गल्यः, के मङ्गल्यकः ॥ १॥ मस्यते परिणमते मसूरः, पुंस्त्रीलिङ्गः " मीमसि-" ॥ ( उणा-४२७ ) इत्यूरः ॥ २ ॥ कलायस्तु सतीनकः ॥ २३६ ॥ . हरेणुः खण्डिकश्च कल्यते कलायः त्रिपुटाख्यः "कुलिलुलि-" ॥ ( उणा- ३७२ ) ॥ इति कायः, कलामतीसारमयते वा, कं लातीति वा ॥१॥ सीदन्त्यनेन सीनः "दिननग्न-" ॥ (उणा- २६८)॥ इति साधुः, के सतीनकः । सीतीनोऽपि ॥२॥२३६॥ ह्रियते हरेणुः, पुंलिङ्गः "कृहृभू-" ॥ ( उणा- ७७२ ) ॥ इत्येणुः ॥ ३ ॥ खण्ज्यते खण्डिकः “कुशिक-" ॥ ( उणा- ४५ ) ॥ इतीके निपात्यते ॥ ४ ॥ __ अथ चणको हरिमन्थकः । चणति दल्यमानश्चणकः " दृकुन-" ॥ ( उणा- २७ ) ॥ इत्यकः ॥१॥ हरिभिर्मथ्यते हरिमन्थकः ॥ २ ॥ माषस्तु मदनो नन्दी वृष्यो बीजवरो बली ॥२३७॥ . . मीयते माषः पुंक्लीबलिङ्गः “वृकृत-" ॥ ( उणा- ५४०)॥ इति षः ॥१॥ मदयति वृक्षत्वाद् मदनः ॥ २ ॥ नन्दयत्यवश्यं नन्दी ॥ ३ ॥ वृषाय मैथुनाय हितो वृष्यः "प्राण्यङ्गरथ-" ॥ ७।१।३७ ॥ इति यः, वृष्यते तैलादिनेति "कृवषि-" ॥ ५।१।४२ ॥ इति क्यप् वा ॥ ४ ॥ बीजेषु वरो बीजवरः, बीज शुकं वृणोति वा ॥ ५ ॥ बेलं रेतोऽस्त्यत्र बली ॥ ६ ॥ २३७ ॥ ___ मुद्गस्तु प्रथनो लोभ्यो बलाटो हरितो हरिः । मोदतेऽनेन मुद्गः “पूमुदिभ्यां कित्" ॥ ( उणा- ९३) ॥ इति गः ॥१॥ प्रयते प्रथनः ॥ २ ॥ लुभ्यते लोभ्यः ॥३॥ बलमटति बलाटः ॥ ४ ॥ हरितो
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy