SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ - ४ भूमिकाण्डः । ४६९ कैरवाणि सन्त्यस्यां कैरविणी तत्र ॥१॥ कुमुदानि सन्त्यस्यां कुमुद्वती "नडकुमुद-" ॥ ६।२।७४ ॥ इति डिद् मतुः, व्यञ्जनान्ताद्वा " तदस्य-" ॥ ७ । २ । १ ॥ इति मतुः । कुमुदिन्यपि ॥ २ ॥ .. उत्पलं स्यात् कुवलयं कुवेलं कुवलं कुवम् ॥ २२९ ॥ ___ उत्पिबत्युत्पलं पुक्लीबलिङ्गः "मुरल-" ॥ ( उणा- ४७४ ) ॥ इत्यले निपात्यते, उत्पलतीति वा ॥ १ ॥ को वलति प्राणिति कुवलयं "कुगुवलि-" ॥ (उणा३६५)॥ इत्ययः, कुत्सितो बहिर्वलयः पत्रवेष्टनमस्य वा ॥ २ ॥ को वेलति कुवेलम् ॥ ३ ॥ कवते भृङ्गारावैः कुवलं पुंक्लीबलिङ्गः "कोर्वा" ॥ (उणा४६९ ) ।। इति किदलः, कौ वलतीति वा ॥ ४ ॥ कुत्सितं वातीति कुवं "क्वचित्" ॥ ५। १ । १७१ ॥ इति डः ॥ ५ ॥ २२९ ॥ : अस्य विशेषानाह श्वेते तु तत्र कुमुदं कैरवं गर्दभाह्वयम् । - तत्र उत्पले श्वेते काम्यते कुमुदं पुंक्लीबलिङ्गः “कुमुद-" ॥ ( उणा२४४ ) ॥ इत्युदे निपात्यते, को मोदत इति वा । कुमुदपि ॥ १ ॥ करोति सुखं कैरवं "कैरवभैरव-"॥ (उणा-५१९)॥ इत्यवे निपात्यते, के रौति कैरवो हंसस्तस्येदं प्रियमिति वा ॥ २ ॥ गर्दभस्यायोऽस्य गर्दभाह्वयम् ॥ ३ ॥ नीले तु स्यादिन्दीवरं - नीले उत्पल इन्दति श्रिया इन्दीवरं " तीवर-" ॥ ( उणा-४४४ ) ॥ इति वरटि निपात्यते ॥ १॥ हलकं रक्तसन्ध्यके ॥ २३० ॥ .. . हल्लति घूर्णते हलकम् ॥ १॥ रक्तान् सन्धीनकति रक्तसन्ध्यकम् , रक्तस. न्ध्येव वा तत्र । रक्तोत्पलं चैतत् ॥ २ ॥ २३० ॥ . सौगन्धिके तु कल्हारं . सुगन्धः प्रयोजनमस्य सौगन्धिकम् ॥ १॥ कल्यते कल्हारं " द्वारशृङ्गार-" ॥ ( उणा-४११) ॥ इत्यारे निपात्यते, के ल्हादते वा, पृषोदरादित्वात् । शारदं शुक्लं चैतत् ॥ २॥ बीजकोशो वराटकः । कर्णिका बीजानां पद्माक्षनाम्नां कोशो रोजकोशः ॥ १॥ वरमटति वराटकः ६०
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy