________________
४६८
अभिधानचिन्तामणौयौगिकत्वात् कमलिनीत्यादयः ॥ ४ ॥
कमलं नलिनं पद्ममरविन्दं कुशेशयम् ॥ २२६ ॥ परं शत-सहस्राभ्यां पत्रं राजीव-पुष्करे । विसप्रसूतं नालीकं तामरसं महोत्पलम् ॥ २२७ ॥
तज्जलात् सरसः पङ्कात् परैरुड्-रुह-जन्म-जैः । - काम्यते श्रिया कमलं “मृदिकन्दि-" ॥ ( उणा- ४६५ ) ॥ इत्यलः, ... कमम्भोऽलति भूषयति वा, केन मल्यत इति वा ॥ १ ॥ नलति नलिनं "श्या. कठि-" ॥ ( उणा- २८२ ) ॥ इतीनः ॥ २ ॥ पद्यते पद्मं “अर्तीरि-" ॥ ( उणा- ३३८)॥ इति मः। एते पुंक्लीबलिङ्गाः ॥ ३ ॥ अरान् विन्दति अर• विन्दं “निगवादेनाम्नि" ॥ ५।१।६१ ॥ इति शः ॥ ४ ॥ कुशे जले शेते कुशेशयं “शयवासिवासेष्वकालात्" ॥ ३।२।२५ ॥ इति सप्तम्यलुप् ॥ ५ ॥ २२६ ॥ शत-सहस्रशब्दाभ्यां परं पत्रम् , शतसहस्रे बहूपलक्षणं शतं शहस्रं च पत्राण्यस्य शतपत्रम् , सहस्रपत्रम् ॥६॥७॥ राज्यः सन्त्यस्य राजीवम् , मण्यादित्वाद्वः ॥ ८॥ पुष्यति जले पुष्करं “सूपुषिभ्यां कित्" ॥ ( उणा- ४३६)॥ इति करः ॥ १॥ विसात् प्रसूतं विसप्रसूतम् । विसप्रसूनमपि ॥ १० ॥ नलति नालीकं पुंक्लीबलिङ्गः "सृणीक-" ॥ ( उणा- ५० ) ॥ इतीके निपात्यते ॥ ११ ॥ तम्यते तामरसं "फनस-" ॥ ( उणा- ५७३ ) ॥ इत्यसे निपात्यते, तामः सप्रकर्षों रसोऽस्यति वा, तमः प्रकषार्थः तारतम्यवत् , ताम्यद्भिभृङ्गरस्यते वा ॥१२॥ महच्च तदुत्पलं च महोत्पलम् ॥ १३ ॥ २२७ ॥ तत् कमलं जलशब्दात् , सरःशब्दात् , पङ्कशब्दाच परै रुडादिभिरुच्यत इत्यर्थः, जलरुट , जलरुहम् , जलजन्म, जलजम् , ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ सरोरुट , सरोरुहम् , सरोजन्म, सरोजम् , ॥ १८ ॥ १९ ।। २०॥२१॥ पङ्कट , पङ्करहम् , पङ्कजन्म, पङ्कजम् । यौगिकत्वाद् वारिज-सरसीरुहादयः ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥
पुण्डरीकं सिताम्भोज पुणति पुण्डते वा पुण्डरीकं "सृणीक-” ॥ ( उणा- ५० ) ॥ इतीके निपात्यते ॥ १ ॥ सितं श्वेतमम्भोज सिताम्भोजम् ॥ २ ॥
अथ रक्तसरोरुहे ॥ २२८ ॥
रक्तोत्पलं कोकनदं रक्तं च तत् सरोरुहं च रक्तसरोरुहं तत्र ॥ १ ॥ २२८ ॥ रक्तं शोणमुत्पलं रक्तोत्पलम् ॥ २॥ कोकैश्चक्रवाकैर्नदति कोकनदम् ॥ ३॥