SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । गुडति रक्षति कफं गुडूची " गुडेरूचट् " ॥ ( उणा - १२० ) ॥ ३ ॥ विशाला त्विन्द्रवारुणी ॥ २२३ ॥ विशाला, महाफलत्वात् ।। १|| इन्द्रवत् अक्षैर्वृणोति इन्द्रवारुणी ||२||२२३|| उशीरं वीरणीमूले उश्यते उशीरं पुंक्लीबलिङ्गः “ घसिवशि - " ॥ ( उणा - ४१९ ) ॥ इति किदीरः || १ || वीरणी तृणविशेषस्तस्या मूलं वीरणीमूलं तत्र ॥ २ ॥ ४६७ हीरे वालकं जलम् | जिहतीव हीबरं " शतेरादयः " ॥ ( उणा - ४३२ ) ॥ इति केरे निपात्यते तत्र ॥१॥ वडते वालः स्वार्थे के वालकम् ||२|| जलति जलम्, यद्वाऽस्य केशसदृशश्वात् तृङ्घ्नत्वाच्च वाल-जलपर्यायवाच्यत्वमपि ॥ ३ ॥ प्रपुन्नाटस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः ॥ २२४ ॥ प्रणति प्रपुनाति वा प्रपुन्नाटः " कपाट - " ॥ ( उणा -- १४८ ) ॥ इति अटे निपात्यते ॥ १ ॥ एडवद् मेषाक्षत्वाद् गज्यते शब्द्यते एडगजः ॥ २ ॥ दद्धुं हन्ति दद्रुघ्नः ।। ३ ॥ चक्राणि दद्रुमण्डलानि मृद्नाति चक्रमर्दकम् ||४|| २२४|| लवायां महारजनं कुसुम्भं कमलोत्तरम् । 2 लटति लट्वा “लटिखटि - " || ( उणा - ५०५ ) || इति वस्तत्र ॥ १ ॥ रज्यतेऽनेन रजनं महत्च तद् रजनं च महारजनम् || २ || कुस्यति कुसुम्भं " काकुसिम्यां कुम्भः” ॥ ( उणा- ३३७ ) || पुंक्लीबलिङ्गोऽयम् || ३ || कमलेभ्य उत्तरं वर्णाधिक्यात् कमलोत्तरम् ॥ ४ ॥ लोध्रे तु गालवो रोध-तिल्व- शावर - मार्जनाः ॥ २२५ ॥ रुणद्धि व्रणं रोधः, लत्वे लोध्रस्तत्र ॥ १ ॥ गालयति स्रावयति अक्षि गा लवः ‘“कैरव–” ।। ( उणा- ५१९ ) ॥ इत्यवे निपात्यते ॥ २ ॥ ३ ॥ तिलति स्निह्यतेऽङ्गमनेन तिल्वः “ प्रह्वाह्ना - " ॥ ( उणा - ५१४ ) ॥ इति वे निपात्यते ॥ ४ ॥ शवराणामयं वृक्षः शावरः ॥ ५ ॥ मार्ष्टि उद्वर्त्तयति अङ्गमनेन मार्जन ॥ ६ ॥ २२५ ॥ मृणालिनी पुटकिनी नलिनी पवजिन्यपि । मृणालमस्त्यस्यां मृणालिनी ॥ १ ॥ पुटकमस्त्यस्यां पुटकिनी " मन्माब्जादेर्नानि ॥ ७२६७ ॥ इति इन् ॥ २ ॥ नलोऽस्त्यस्यां नलिनी “अतोऽनेकस्वरात्-" ॥ ७|२।६ ॥ इतीन् ॥ ३ ॥ पङ्कजमस्त्यस्यां पङ्कजिनी, अब्जादित्वादिन्,
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy