SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४६६ अभिधानचिन्तामणौ- .. सर्पवल्ली, फणिलता इत्यादि ॥ ३ ॥ तुम्ब्यलाबू: ताम्यति तुम्बी "तुम्बस्तुम्बादयः" ॥ ( उणा- ३२० ) ॥ इति बे निपा. त्यते ॥ १॥ न लम्बतेऽलाबूः काक्वाऽत्र नञ् “नो लम्बेर्नलुक् च" ॥ (उणा८३८ ) ॥ इत्यः, स्त्रीक्लीबलिङ्गावती ॥२॥ कृष्णला तु गुञ्जा कृष्णं प्रान्तं लाति कृष्णला ॥ १ ॥ गुजति शिम्ब्या गुजा ॥ २॥ .. द्राक्षा तु गोस्तनी ।। २२१ ॥ मृद्वीका हारहूरा च रस्यते द्राक्षा " लाक्षाद्राक्षा-” ॥ ( उणा-५९५ ) ॥ इति निपात्यते यद्वा, द्राक् क्षरति क्षीयते क्षिपति क्षिणोतीति वा “ क्वचित् " ॥ ५।१। १७१ ॥ इति डः ॥ १ ॥ गोस्तानाभा गोस्तनी ॥ २ ।। २२१.। मृद्यते मृद्वीका “ मृदेखेंऽन्तश्च वा” ॥ ( उणा-४९ ) ॥ इति किदीकः ॥ ३ ॥ हरति पित्तं हारहूरा "सिन्दूर-" ॥ ( उणा-४३०) । इत्यूरे निपात्यते ॥ ४ ॥ गोक्षुरस्तु त्रिकण्टकः । श्वदंष्ट्रा स्थलशृङ्गाटः गाः क्षुरयति व्यथयति गोक्षुरः ॥१॥ त्रयः कण्टका अस्य त्रिकण्टकः ॥२॥ शुनो दृष्ट्रेव श्वदृष्ट्रा संज्ञाशब्दत्वात् “शुनः” ॥ ३ । २ । ९० ॥ इति दीर्घत्वाभावः ॥ ३ ॥ स्थलस्य शृङ्गाटः, स्थलशृङ्गमटतीति वा स्थलशृङ्गाटः ॥४॥ गिरिकर्ण्यपराजिता ॥ २२२ ॥ गिरिरश्मेव कर्णोऽस्या गिरिकणी ॥ १ ॥ न पराजीयते रक्षाहेतुत्वादपराजिता अप्रतिहतेत्यर्थः ॥ २ ॥ २२२ ॥ ___ व्याघ्री निर्दिग्धिका कण्टकारिका स्यात् । · व्याघ्रीव व्याघ्री, दुःस्पर्शत्वात् ॥ १ ॥ निर्दिह्यते निर्दिग्धा के निर्दिग्धिका ॥२॥ कण्टकानियति कण्टकारी, के कण्टकारिका ।। ३ ।। अथामृता । वत्सादनी गुडूची च । न म्रियते अमृता छिनप्ररोहत्वात् ॥ १ ॥ वत्सैरद्यते वत्सादनी ॥२॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy