________________
४ भूमिकाण्डः ।
४६५
सल्लकी तु गजप्रिया ॥ २१८ ॥ 'सल्लः सौत्रः' सल्लति सल्लकी, पुंस्त्रीलिङ्गः “दृकुन-" ॥ ( उणा- २७) ॥ इत्यकः, सत्कृत्य लक्यते खाद्यते गजैरिति वा ॥ १ ॥ गजस्य प्रिया ॥२॥२१८॥
वंशो वेणुर्यवफलस्त्वचिसारस्तृणध्वजः ।
मस्करः शतपर्वा च वमति वंशः “पादावमि-" ॥ ( उणा- ५२७)॥ इति शः ॥ १॥ अजन्यनेन वेणुः पुंलिङ्गः "अजिस्था-" ॥ ( उणा- ७६ ) ॥ इति णुः ।। २ ॥ यवाकारं फलमस्य यवफलः ॥ ३ ॥ त्वचि वल्के सारस्त्वचिसारः "अद्व्यञ्जनात्-" ॥ ३।२।१८ ॥ इति विकल्पेन सप्तम्यलुप् । त्वक्सारोऽपि ॥ ४ ॥ तृणानां ध्वज इव तृणध्वजः ॥ ५ ॥ मा क्रियते प्रतिषिध्यतेऽनेन मस्करः, वर्चस्कादित्वात् साधुः ॥ ६ ॥ शतं बहूनि पर्वाण्यस्य शतपर्वा ॥ ७ ॥
स्वनन् वातात् स कीचकः ॥ २१९ ॥ स वंशो वाताद् हेतोः शब्दायमानः कवते बध्नाति शब्दं कीचकः "कीचक-" ॥ ( उणा- ३३ ) ॥ इत्यके निपात्यते, कीति चकते वा, कीचेति कायति वा ॥ १ ॥ २१९ ॥
तुकाक्षीरी वंशक्षारी त्वक्षीरी वंशरोचना । क्षीरस्य त्वगिव तुकाक्षीरी ॥ १॥ वंशात् क्षीरमस्यां वंशक्षीरी ॥ २ ॥ त्वचः क्षीरमस्याः त्वक्षारी स्त्रीक्लीबलिङ्गः ॥ ३ ॥ वंशोत्था रोचना वंशरोचना ॥ ४ ॥
पूगे क्रमुक-गूवाको पवते पूगः “पूमुदिभ्याम्-" ॥ ( उणा- ९३ ) ॥ इति किद् गस्तत्र ॥ १॥ कामति क्रमुकः ' "क्रमेः कृम् च वा” ॥ ( उणा- ५३ ) ॥ इति उकः ॥ २ ॥ गुर्वत्यनेन संसकत्वाद् गूवाकः “मवाकश्यामाक-" ॥ ( उणा- ३७ ) ॥ इत्याके निपात्यते ॥ ३ ॥
तस्योद्वेगं पुनः फलम् ॥ २२० ।। तस्य पूगस्य फलमुद्गतो वेगोऽस्य उद्वेगम् , संसकत्वात् ॥ १ ॥ २२० ॥
ताम्बूलवल्ली ताम्बूली नागपर्यायवल्ल्यपि । ताम्बूलं पूगपर्ण-चूर्णसंयोगस्तद्धेतुर्वल्ली ताम्बूलवल्ली ॥ १ ॥ ताम्यन्ति काङ्कत्येनां ताम्बूली "तमेोऽन्तो दीर्घस्तु वा" ॥ ( उणा- ४८९)॥ इत्यूलः ॥ २ ॥ नागपर्यायेभ्यः सर्पादिभ्यो वल्ली, नागस्य वल्ली पातालानीतत्वाद् नागवल्ली,