SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४६४. अभिधानचिन्तामणौकाष्ठे-" ॥ ७ ॥ ३ । १२४ ॥ इति टः समासान्तः ॥ १ ॥ ईरयति वायुमेरण्डः .. "पिचण्डैरण्ड-" ॥ ( उणा- १७६ ) ॥ इत्यन्डे निपात्यते तत्र ॥ ३॥ .. . . भ्रातक्यां धातुपुष्पिका ॥ २१६ ॥ दधाति धातकी "श्लेष्मातक-" ॥ ( उणा-८३ ) ॥ इत्यातके निपात्यते तम ॥१॥ धातुवद् रक्तानि पुष्पाण्यस्या धातुपुष्पी ॥ २ ॥ २१६ ॥ कपिकच्छूरात्मगुप्ता कपीन् कषति कपिकच्छूः स्त्रीलिङ्गः "कषेण्डछौ च षः” ॥ ( उणा८३१)॥ इति ऊः ॥ १॥ आत्मना गुप्ता आत्मगुप्ता, स्पर्शाविषयत्वात् ॥ २ ॥ धत्तूरः कनकाहवयः। धयति धातून धत्तूरः “सिन्दूर-" ॥ ( उणा- ४३०)॥ इत्यूरे निपात्यते धात्तोऽपि ॥ १ ॥ कनकाह्वयः, भुक्तेऽस्मिन् हेमवर्णपृथ्वीदर्शनात् ॥ २ ॥ कपित्थस्तु दधिफलः कपयोऽस्मिन् तिष्ठन्ति कपित्थः, कपिप्रियत्वात् कपिरिव तिष्ठतीति वा, पृषो. दरादित्वात् तत्वम् ॥ १ ॥ दधिवदम्लमधुरं फलमस्य दधिफलः ॥ २ ॥ नालिकेरस्तु लागली ॥ २१७ ।। वलति नालिकेरः पुंस्त्रीलिङ्गः “ शतेरादयः " ॥ (उणा-४३२ ) ॥ इत्येरे निपात्यते ॥ १ ॥ नालिकान् नालयुक्तान् पुष्पादीनीरयति वा हलाकारपत्रशाखखाल्लाङ्गली ॥ २ ॥ २१७ ॥ आम्रातको वर्षपाकी अमति आनातकः " श्लेष्मातकाम्रातक-" ॥ ( उणा-८३ ) ॥ इति निपात्यते, आम्रमतति कपिचूतत्वादिति वा ॥१॥ वर्षेण पाकोऽस्त्यस्य वर्षपाकी ॥ २ ॥ केतकः क्रकचच्छदः । केतति वने केतकः पुंस्त्रीलिङ्गः, यद्वाचस्पतिः- 'केतकस्तु द्वयोः' इति ॥१॥ क्रकचाकाराणि च्छदान्यस्य कचच्छदः ॥ २॥ कोविदारो युगपत्रः कनति दीप्यते कोविदारः “ कनेः कोविद-" ॥ ( उणा-४१० ) ॥ इत्यारे साधुः, कुं भूमिं विदारयतीति वा, पृषोदरादित्वात् ॥ १॥ युगरूपं पत्रमुस्य युगपत्रः ॥ २ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy