SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्ड: । ૪૬૧ मागधी यूथिका मगधदेशे भवा मागधी ॥ १ ॥ यूथते यूथी " पथयूथ - " ॥ ( उणा२३१ ) ॥ इति थे निपात्यते, के यूथिका; यूथो जालक मस्त्यस्यां वा ॥ २ ॥ सा तु पीता स्याद् हेमपुष्पिका ॥ २१४ ॥ सा यूथिका पीतवर्णा हेमवर्ण पुष्पमस्या हेमपुष्पी “असत्काण्ड प्रान्तश • काञ्चः पुष्पात्” ॥ २|४|५६ ॥ इति ङी ॥ १ ॥ २१४ ॥ प्रियङ्गुः फलिनी श्यामा "" प्रीणाति प्रियङ्गुः स्त्रीलिङ्गः “प्रीकैपै- ॥ ( उणा - ७६१ ) ॥ इत्यङ्गुक् ॥ १ ॥ फलति फलिनी "श्याकठि - " ॥ ( उणा - २८२ ) ॥ इति बहुवचनादिनः ॥ २ ॥ श्यामा वर्णेन ॥ ३ ॥ बन्धुको बन्धुजीवकः । बध्नाति चित्तं बन्धूकः " मृमन्यञ्जि - " ॥ ( उणा - ५८ ॥ १ ॥ जीवानां बन्धुः, बन्धून् जीवयति वा बन्धुजीवकः ॥ २ ॥ करुणे मल्लिकापुष्पः ५८ ) ॥ इश्यूकः कीर्यते करुणः “ऋलृवृ – ” ॥ ( उणा - १९६ ) ॥ इत्युणस्तत्र ॥ १ ॥ मल्लिकाया इव पुष्पमस्य मल्लिकापुष्पः ॥ २ ॥ जम्बीरे जम्भ - जम्भली ॥ २१५ ॥ जम्यते जम्बीरः "जम्बीर - " ॥ ( उणा - ४२२ ) ॥ इतीरे निपात्यते तत्र ॥ १ ॥ जम्भते जम्भ: पुंक्लीबलिङ्गः || २ || "मुरल-" । ( उणा ४७४) ॥ इत्यले निपातनाज्जम्भलः, जम्भान् दन्तान् लात्यम्लत्वाद् वा ॥ ३ ॥ २१५ ॥ मातुलिङ्गो बीजपूरः 99. मातोऽत्यते मातुलिङ्गः “माङस्तुलेरुङ्गक् च - '॥ ( उणा - १०६ ) ॥ इति साधुः । मातुलिङ्गोऽपि ॥ १ ॥ बीजैः पूर्यते बीजपूरः ॥ २ ॥ करीर - ककरौ समौ । किरति करीरः पुंक्लीबलिङ्गः, करिण ईरयति कण्टकैर्वा ॥ १ ॥ क्रकरः जठरककर - " ॥ ( उणा - ४०३ ) ॥ इत्यरे निपात्यते, ऋतिं करोति "( तीक्ष्णकण्टकत्वाद्वा ॥ २ ॥ पञ्चाङ्गुलः स्यादेरण्डे पञ्च अङ्गुलयोऽस्य पञ्चाङ्गुलः, अङ्गुलिसदृशपञ्चपत्रावयवत्वात् “बहुव्रीहेः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy