SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ-.. तापिञ्छस्तु तमालः स्यात् तापिनश्छादयति तापिञ्छः, पृषोदरादित्वात् । तापिच्छोऽपि ॥१॥ ताम्यति तमालः पुंक्लीबलिङ्गः “ ऋकृमृ-" ॥ ( उणा-४७५ ) ॥ इत्यालः ॥ २ ॥ चम्पको हेमपुष्पकः ॥ २१२ ॥ " चम्यतेऽद्यते भृ.श्चम्पकः " कीचक-"n ( उणा-३३) ॥ इत्यके निपास्यते ॥ १ ॥ हेमवणे पुष्पमस्य हेमपुष्पकः ॥ २ ॥ २१२ ॥ निर्गुण्डी सिन्दुवारे १.... निष्क्रान्ता गुण्डाद् वेष्टात् निर्गुण्डी । निर्गुण्टीत्यपि ॥ १ ॥ स्यन्दते सिन्दुवारः “ द्वारशृङ्गार-" ॥ ( उणा-४११ ) ॥ इत्यारे निपात्यते, स्यन्दं वृणोति वा, पृषोदरादित्वात् तत्र ॥२॥ अतिमुक्तके माधवी लता वासन्ती च अतिक्रान्तो मुक्तान विरक्तानतिमुक्तकस्तत्र ॥ १ मधौ वसन्ते भवा माधवी "भर्तसन्ध्यादेः-"॥ ६ । ३ । ८९ ॥ इत्यण् ॥ २॥,लाति लता ॥ ३ ॥ व. सन्ते पुष्प्यति वासन्ती " साधुपुष्प्यतूपच्यमाने" ॥ ६।३।११७ ॥ इत्यण ॥४॥ ___औड्रपुष्पं जपा उडूदेशे भवं पुष्पमोड्रपुष्पम् ॥१॥ जपतीवं जपा। जपादित्वाद्वत्वे जवाऽपि ॥२॥ जातिस्तु मालती ॥ २१३ ॥ जायतेऽस्यां पुष्पादि जातिः ॥ १॥ मालयत्यामोदर्मालती " पुतपित्त-" ॥ ( उणा- २०४ ) ॥ इति ते निपात्यते ॥ २ ॥ २१३ ॥ मल्लिका स्याद्विचकिलः ___मल्ल्यते मूर्धनि मल्लिः “पदिपठि-" ॥ ( उणा- ६०७ ) ॥ . इति इ:, के मल्लिका, “दृकुन-" ॥ ( उणा- २७ ) ॥ इत्यको वा ॥१॥ विच्यते विचकिल: "स्थण्डिलकपिल-" ॥ ( उणा- ४८४ ) ॥ इतीले निपात्यते ॥ २ ॥ सप्तला नवमालिका । सप्त मनो बुद्धिमिन्द्रियाणि च लाति सप्तला, सपति समवैति वा "मुरल-" ॥ ( उणा- ४७४ ) ॥ इत्यले निपात्यते ॥ १॥ नवा स्रुत्या मालाऽस्या नवमालिका ॥२॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy