SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्ड: । ४६१ पीतवर्णः सालः पीऩसालः ॥ १ ॥ प्रियकः, काम्यत्वात् || २ || अस्यत्यसनः पुंक्लीबलिङ्गः ।। ३ ॥ पाटलि: पाटला पाटयति दौर्गन्ध्यं पाटलिः पुंस्त्रीलिङ्गः पाटयजिभ्याम् - " ॥ ( उणा७०२ ) ।। इत्यलिः ॥ १ ।। " मृदिकन्दि - " || ( उणा - ४६५ ) ॥ इत्यले पाटला, ताम्रपुष्पत्वाद्वा ॥ २॥ भूर्जी बहुत्वक्को मृदुच्छदः ॥ २१० ॥ भृणाति भूर्जः, भुवि ऊर्जयतीति वा ॥ १ ॥ बह्व्यस्त्वचोऽस्य बहुत्त्रक्कः || २ || मृदूनि च्छदान्यस्य मृदुच्छदः ॥ ३ ॥ २१० ॥ दुमोत्पलः कर्णिकारे द्रुमस्यापि उत्पलानीव पुष्पाण्यस्य द्रुमोत्पलः । सुरभिश्चायमन्यो निर्गन्धः ॥ १ ॥ कर्णिकामियति कर्णिकारस्तत्र ॥ २ ॥ निचुले हिज्जले- ज्जलौ । 3-" 66 66 नेनेक्ति निचुलः “ कुमुल–” ॥ ( उणा - ४८७ ) ॥ इत्युले निपात्यते, निचुयतेऽम्बुनेति वा तत्र ॥ १ ॥ हिनोति हिज्जलः ॥ २ ॥ एति इज्जलः मुर॥ ( उणा - ४७४ ) ॥ इत्यले निपात्यते । 'हितजलापभ्रंशो हिज्जल:' इति क्षीरस्वामी, जलवेतसविशेषत्वादस्य ॥ ३ ॥ धात्री शिवा चामलकी दधाति धात्री ॥ १ ॥ शेरते गुणा अस्यां शिवा ॥ २ ॥ आमलते धारयति गुणानामलकी “ कीचक- " ॥ ( उणा - ३३) ॥ इत्यके निपात्यते, त्रिलिङ्गोऽयम् ॥ ३ ॥ कलिरक्षो बिभीतकः ॥ २११ ॥ ॥ ( उणा - ७८ ) ॥ इति कल्यते कलिः पुंलिङ्गः, कलिहेतुत्वाद्वा ॥ १ ॥ अक्षति व्याप्नोत्यक्षः ॥ २ ॥ बिभेत्यस्माद् बिभीतकः त्रिलिङ्गः " भियो द्वे च तकक् । बिभेदक इत्यन्ये ॥ ३ ॥ २११ ॥ हरीतक्यभया पथ्या ८८ ܕܕ हरति रोगान् हरीतकी, स्त्रीलिङ्गः हरुहि - ' ( उणा - ७९ ) ॥ इतीतकः ॥ १ ॥ नास्ति भयमस्या अभया ॥ २ ॥ पथि साधुः पथ्या हितेत्यर्थः ॥ ३ ॥ त्रिफला तत्फलत्रयम् । तेषामामलक्यादीनां फलत्रयं त्रीणि फलानि समाहृतानि त्रिफला, अजाजित्वादाप् ॥ १ ॥ ५९
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy