SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४६० अभिधानचिन्तामणो- . . गुडवद् मधुरं फलमस्य गुडफलः ॥३॥ गुग्गुलुस्तु पलङ्कषः । गूयते गुग्गुलुः पुंलिङ्गः “ गृहलुगुग्गुलुकमण्डलवः " ॥ (उणा- ८२४ )। इति साधुः ॥१॥ पलं मांसं कषति पलङ्कषः, पृषोदरादित्वाद् मोऽन्तः ॥२॥ राजादनः पियालः स्यात् राज्ञामदनं मृष्टत्वाद् राजादनः पुंक्लबिलिङ्गः ॥१॥ पीयते रसोऽस्य पियालः "कुलिपिलि" ।। ( उणा-४७६ ) ॥ इति किदालः । प्रियालोऽपि ॥ २॥ तिनिशस्तु रथद्रुमः ॥ २०८ ॥ तनोति रथादीन् तिनिशः “तिनिश." ॥(उणा- ५३७ ) ॥ इति निशे निपात्यते, अतिक्रान्तो निशाः, चिरकालिकत्वादिति वा पृषोदरादित्वात् ॥१॥ स्थहेतुईमो रथद्रुमः ॥२॥ २०८ ।। नागरङ्गस्तु नारङ्गः नागरस्य सिन्दूरस्येव रङ्गो रागोऽस्य नागरङ्गः ॥ १ ॥ नृणाति नारङ्गः "सृवृ. नृभ्यो णित् " ॥ (उणा- ९९) इत्यङ्गः । नार्यङ्गोऽपि ॥२॥ इङ्गुदी तापसद्रुमः। । इङ्गति इङ्गुदी, त्रिलिङ्गः “इङ्गयर्विभ्याम् ." ॥ (उणा- २४२)॥ इत्युदः॥१॥ तापसानां द्रुमः तापसद्रुमः । तापसा हि अरण्येऽस्यास्तैलमुपयुञ्जते ॥१॥ ___ काश्मरी भद्रपर्णी श्रीपर्णी काशते काश्मरी “जठर." ।। (उणा-४०३) ॥ इत्यरे निपात्यते ॥ १॥ भद्राणि श्रीयुक्तानि च पर्णानि अस्या भद्रपर्णी श्रीपर्णी " पाककर्णपर्णवालान्तात्." ॥२।४।५५ ॥ इति ङी ॥ २॥३॥ अम्लिका तु तिन्तिडी ॥ २०९॥ अम्लैव अम्लिका ॥ १ ॥ तिम्यति तिन्तिडी "विहड-" ॥ (उणा-१७२)। इति निपात्यते ॥ २ ॥ २०९ ॥ शेलुः श्लेष्मातकः शेरतेऽस्मिन् शेलुः पुंलिङ्गः “शीङो लुः" ॥ ( उणा-८२०)॥१॥ श्लिष्यति कफोऽस्मात् श्लेष्मातकः " श्लेष्मातक-" ॥ ( उणा-८३ ) ॥ इत्यातके निपात्यते श्लेष्माणमततीति वा ॥ २ ॥ पीतसालस्तु प्रियकोऽसनः।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy