SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४५८ अभिधानचिन्तामणौर्वा" ॥ ( उणा-४६९) ॥ इति किदलः, कौ भूमौ वलतीति वा ॥ २ ॥ कोलति कोलिः स्त्रीलिङ्गः “ किलिपिलि-" ॥ (उणा-६०८) ॥ इति इः ॥ ३ ॥ 'बद स्थैर्ये' बदति बदरी "ऋछिचटि-" ॥ ( उणा-३९७ ) ॥ इत्यरः ॥ ४ ॥ अथ हलिप्रियः । नीपः कदम्बः .. हलिनः प्रियो हलिप्रियः, सुराधिवासनात् ॥१॥ नयति सुखं नीपः "नियो वा" ॥ ( उणा- ३०२)॥ इति कित् पः ॥ २ ॥ 'कदः सौत्रः, कद्यते कदम्बः. . “कदेर्णिद्वा" ॥ (उणा-३२२)॥ इत्यम्बः, कुत्सितमम्बते वा । धाराकदम्बो राजकदम्वश्चासौ । धूलिकदम्बोऽन्यः ॥ ३ ॥ सालस्तु सर्जः सीयते सालो दन्त्यादिः पुंक्लीबलिङ्गः ॥ १ ॥ सृजति सर्जति वा निर्यासं सर्जः ॥२॥ अरिष्टस्तु फोनलः ॥ २०४ ॥ नास्ति रिष्टमशुभमस्मादरिष्टो रक्षाहेतुः ॥ १॥ फेनाः सन्त्यस्य फेनिलः "प्रज्ञापर्णोदकफेनाद्-" ॥ ७ ॥ २ ॥ २२ ॥ इतीलः ॥ २ ॥ निम्बोऽरिष्टः पिचुमन्दः नयति रोगानुपशमं निम्बः “डीनीबन्धि-" ॥ (उणा-३२५)॥ इति निम्बः, निव्यते सिच्यते वा ॥१॥ न रिष्यतेऽरिष्टः ॥२॥ पिचुं मन्दयति पिचुमन्दः, अरोगकृत्त्वादपिचमन्येनमिति वा “कुमुद-" ॥ (उणा-२४४) ॥ इति निपात्यते ॥३॥ समौ पिचुल-झाबुको । पिचुं तूलं लाति पिचुलः ॥ १ ॥ ध्यायते झाबुकः “कञ्चुक-" ॥ ( उणा५७) ॥ इति उके निपात्यते ॥ २ ॥ कर्पासस्तु बादरः स्यात् पिचव्यः करोति शोभां कर्पासः पुंक्लीबलिङ्गः " कृकुरिभ्यां पासः" ॥ ( उणा५८३ ) ॥१॥ बदति स्थैर्य भजते बादरः " जठर-" ।। ( उणा-४०३)॥ इत्यरे निपात्यते ॥ २ ॥ पिचुभ्यो हितः पिचव्यः ॥ ३ ॥ तूलकं पिचुः ॥ २०५ ॥ ___ तुल्यते तूलं के तूलकं पुंक्तीबलिङ्गः ॥१॥ पच्यते पिचुः निरस्थीकृतफांसः पुंलिङ्गः “ पचेरिच्चातः" ॥ ( उणा-७३५)॥ इत्युः ॥ २ ॥ २०५॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy