SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ४५७ त्रिपत्रकः पलाशः स्यात् किंशुको ब्रह्मपादपः । त्रीणि पत्राण्यस्य त्रिपत्रकः ॥ १ ॥ प्रशस्तानि पलाशानि सन्त्यस्य पलाशः, अभ्रादित्वादः, पलं मांसमश्नुत इव रक्तपुष्पत्वाद्वा ॥२॥ किञ्चित् शुको नीलः किंशुकः ॥ ३ ॥ ब्रह्मणः पादपो ब्रह्मपादपः ॥ ४ ॥ तृणराजस्तलस्तालः तृणानां राजा तृणराजः, तृणद्रुमध्ये मुख्यत्वात् ॥ १ ॥ तलति प्रतिबिम्बति बहुरूपत्वात् तलः ॥ २ ॥ प्रज्ञाद्यणि तालः ॥ ३ ॥ रम्भा मोचा कदल्यपि ॥ २०२ ॥ रमन्तेऽस्यां रम्भा “गृदृरमि-" ॥ ( उणा- ३२५ ) ॥ इति भः, रम्भत इति वा ॥ १॥ मुञ्चति मोचा ॥ २ ॥ 'कदिः सौत्रः' कद्यते कदली "मृदिकन्दि-" ॥ ( उणा- ४६५) इत्यलः, केन वायुना दल्यते वा, के दलमस्या इति वा ॥ ३ ॥ २०२॥ करवीरो हयमारः । किरति करवीरः “ जम्बीर-" ॥ ( उणा-४२२) इति निपात्यते, कृणोति हिनस्ति करः स वीर इव मारकत्वात् करवीरः ॥ १॥ हयानुपभक्तो मारयति हयमारः ॥ २॥ कुटजो गिरिमल्लिका। कुटति कुटजः “कुटेरजः" ॥ ( उणा-१३० ) ॥ कुटादित्वाद् गुणाभावः, कुटतो जायते वा ॥१॥ गिरिणा मल्ल्यते धार्यते गिरिमल्लिका, गिरौ मल्लिके. व वा ॥ २॥ विदुलो वेतसः शीतो वानीरो वजुलो रथः ॥ २०३ ॥ 'विदु अवयवे' विन्दति विदुलः 'स्थावङ्कि"- ॥ ( उणा- ४८६ ) ॥ इत्युलो न लुक् च ॥ १॥ वेति वेतसः पुंस्त्रीलिङ्गः "तसः" ॥ ( उणा- ५८०)॥ इति तसः ॥ २ ॥ शीतोऽनुष्णवीयत्वात् ॥ ३ ॥ वन्यते वानीरः " वनिवपिभ्यां णित्" ॥ ( उणा-४२१ ) इतीरः ॥ ४ ॥ वजति जुलः “कुमुल-" ॥ (उणा४८७ ) ॥ इत्युले निपात्यते ॥ ५॥ रमन्तेऽस्मिन् रथः, रथहेतुत्वाद्वा ॥ ६ ॥ ॥ २०३ ॥ कर्कन्धुः कुवली कोलिबदरी ___कर्कस्य अन्धुरिव कर्कन्धुः । कर्कन्धूरपि ॥१॥ कौति कुवली त्रिलिङ्गः “को
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy