SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४५६ अभिधानचिन्तामणो- .. इति से निपात्यते ॥ १ ॥ शोभामनक्ति शोभाञ्जनः, सुष्ठु भनक्ति मुखमिति वा, . पृषोदरादित्वात् ॥ २॥ न क्षीवन्तेऽनेन अदृप्यत्वादक्षीवः ॥३॥ तीक्ष्णो गन्धोऽस्य . तीक्ष्णगन्धः ॥ ४ ॥ मुञ्चति गन्धं मोचक्रः ॥ ५॥ श्वेतेऽत्र श्वेतमरिचः अत्र शिनौ श्वेते श्वेतानि मरिचतुल्यानि फलान्यस्य श्वेतमरिचः ॥ १॥ पुन्नागः सुरपर्णिका ॥ २० ॥ पूजितः पुमान् पुन्नागः स इव, प्राधान्यात् ॥१॥ सुरप्रियाणि पर्णानि सन्त्यस्यां सुरपर्णिका ॥ २ ॥ २० ॥ बकुलः केसरः बते पुष्पैर्बकुल: "स्थावकि-" ॥ ( उणा-४८६ ) ॥ इत्युलो नलुक् च ॥१॥ केसराः सन्त्यस्य केसरः, अभ्रादित्वादः, किं सौत्रं जुहोत्यादौ स्मरन्ति, चिकेति वा "मीज्यजि." ॥ (उणा-४३९) ॥ इति सरः, के सरतीति वा ॥२॥ अशोकः ककेल्लिः __न शवत्यशोकः “भीण्-" ॥ ( उणा-२१)॥ इति कः, नास्ति शोकोऽस्मादिति वा ॥१॥ कमुदकं केलति गच्छति कङ्केल्लिः, स्त्रीलिङ्गः, यदमरशेषः-'स्त्रियां त्वशोके कङ्केल्लिः' पृषोदरादित्वात् ॥ २ ॥ ककुभोऽर्जुनः । ककते ककुभः “ककेरुभः" ॥ ( उणा- ३३३ ) ॥ ककुभो व्यापकत्वादस्य सन्तीति वा, कं स्कुनाति वा, पृषोदरादित्वात् ॥ १ ॥ अय॑तेऽर्जुनः, शौक्ल्याद् वा ॥२॥ मालूरः श्रीफलो बिल्वः __मलते मालूरः “महिकणि-" ॥ ( उणा- ४२८ ) ॥ इति णिदूरः ॥ १॥ श्रीप्रदानि फलान्यस्य श्रीफलः ॥२॥ बिलति भिनत्ति बिल्वः "निधृषी-" ॥ (उणा-५११) ॥ इति किद्वः ॥ ३ ॥ किङ्किरातः कुरण्टकः ॥ २०१॥ - कुत्सितं किरति किङ्किरातः “कृवृकलि-" ॥ ( उणा-२०९) ॥ इत्यातक् , किञ्चित् किरातः खो वा ॥ १॥ 'रण्टिः सौत्रः' को रण्टति कुरण्टकः "कोरुरुण्टिरण्टिभ्यः" ॥ (उणा-२८)॥ इत्यकः, कुरुण्टकोऽपि । कुरण्डक इत्यन्ये ॥ ॥२॥ २०१॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy