SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ४५५ बोधितरुः बोधिसत्वाख्यः, सर्वोपकारित्वात् ॥ ६ ॥ प्लक्षस्तु पर्कटी जटी ॥ १९७ ॥ प्लक्षत्यधो गच्छति प्लक्षः, प्लोषति अशिवमिति वा “प्लुषेः प्लष् च" (उणा५६६ ) ॥ इति सः ॥ १॥ पर्कटाख्यं फलमस्त्यस्य पर्कटी, यद्वाचस्पतिः- ‘फलं वेतस्य पर्कटम्' इति । पृच्छयते पकटीत्यकारान्तात् ड्यामीदन्तो वा, यत् शाश्वतः'विज्ञेया पर्कटी प्लक्षः प्लक्षः पिप्पलपादपः' इति ॥ २ ॥ जटाः सन्त्यस्य जटी, शिखादित्वादिन् ॥ ३ ॥ १९७ ॥ न्यग्रोधस्तु बहुपात् स्याद् वटो वैश्रवणालयः । न्यग् रोहति न्यग्रोधः “वीरुन्न्यग्रोधौ" ॥ ४ ॥ १।१२१ ॥ इति धत्वे साधुः, न्यक् तिर्यग् मार्ग मूलै रुणद्धि वा ॥ १ ॥ बहवः पादा म्लान्यस्य बहुपात् "सुसङ्ख्यात्" ॥ ७ । ३ । १५० ॥ इति पाद्भावः ॥२॥ वटति वेष्टयति मूलैटः, त्रिलिङ्गः ॥ ३ ॥ वैश्रवणस्य यक्षस्यालयो वैश्रवणालयः, यदाहुः- 'वटे वटे वैश्रवणः' इति ॥ ४ ॥ __ उदुम्बरो जन्तुफलों मशकी हेमदुग्धकः ॥ १९८ ॥ उनत्त्युदुम्बरः “तीवर-" ॥ ( उणा-४४४) ॥ इति बरटि निपात्यते, उल्ल. चिताम्बर इति वा, पृषोदरादित्वादुत्वम् ॥१॥ मशकगर्भाणि फलान्यस्य जन्तुफल: ॥२॥ मशकाः सन्त्यस्य मशकी ॥३॥ हेमवर्ण दुग्धमस्य हेमदुग्धकः ॥४॥१९॥ ___ काकोदुम्बरिका फल्गुमलयुर्जघनेफला । काकप्रिया उदुम्बरी काकोदुम्बरिका ॥ १ ॥ फलति फल्गुः “फलिवलि-" ( उणा- ७५८ ) ॥ इति गुः ॥ २ ॥ 'युणि जुगुप्सायाम्' मलं श्वित्रं यावयते. मलयुः, पृषोदरादित्वात् ॥३॥ जघने बुने. फलान्यस्या जघनेफला । एते स्त्रीलिङ्गाः॥४॥ आम्रचूतः सहकारः अम्यतेऽभिलष्यते आनः “चिजि-" ॥ ( उणा-३९२) ॥ इति रो दीर्घश्च ॥ १॥ श्चोतति चूष्यते वा चूतः "पुतपित्त-" ( उणा- २०४ ) इति ते निपात्यते ॥ २ ॥ सहकारयति मेलयति स्त्रीपुंसौ सहकारः, माकन्दोऽपि ॥३॥ सप्तपर्णस्त्वयुक्छदः ॥ १९९ ॥ सप्त पर्णानि अस्य सप्तपर्णः ॥ १ ॥ अयुजि विषमाणि च्छदान्यस्यायुक्छदः ॥२॥ १९९॥ . शिग्रुः शोभाञ्जनोऽक्षीव-तीक्ष्णगन्धक-मोचकाः । . शिनोति तैपण्यात् शिग्रुः पुंक्लीबलिङ्गः " शिग्रुगेरु-" ॥ (उणा-८११) ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy