SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४५४ अभिधानचिन्तामणो- - संकुचितं तु निद्राणं मीलितं मुद्रितं च तत् ॥ १९५ ॥ संकोचति स्म संकुचितम् ॥ १॥ निद्राति स्म निद्राणम् ॥ २ ॥ मीलति स्म मीलितम् ।। ३ ।। मुद्रयते स्म मुद्रितम् ॥ ४ ॥ १९५ ॥ फलं तु सस्य फलति फलं वृक्षादीनाम् , पुंक्लीबलिङ्गः ॥१॥ षसक् स्वप्ने' ससन्त्य नेन सस्यम्" स्थाच्छामासा-" ॥ ( उणा-३५७ ) ॥ इति यः ॥ २॥ . तच्छुष्कं वानं तत् फलं शुष्कं वायते स्म बानं वाच्यलिङ्गः “सूयत्यादि-" ॥ ४ । २ । ७० ॥ इति तस्य नत्वम् ॥ १॥ आमं शलाटु च । तत् फलमाममपक्कं शलति शलाटु वाच्यलिङ्गः “शलेराटुः" ॥ ( उणा७६३) ॥१॥ ग्रन्थिः पर्व परुः प्रथ्नाति संधत्ते प्रन्थिः पुंलिङ्गः " पदिपठि-"॥ ( उणा-६०७ ) ॥ इति इः ॥ १॥ पृणाति पर्व "स्नामदि-" ॥ ( उणा-९०४ ) ॥ इति वन्। “रुद्यति-" ॥ (उणा-९५१ ) इत्युसि परुः, क्लीबलिङ्गावेतौ ॥ २ ॥ ३ ॥ वीजकोशी शिम्बा शमी शिमिः ॥ १९६ ।। शिम्बिश्व कुशन्त्यस्यां कोशी, बीजानां कोशीव पिधायकत्वाद् बीजकोशी ॥ १ ॥ शर्धतेऽनया शिम्बा "डीनीबन्धि-" ॥ ( उणा-३२५) इति डिम्बः ॥ २ ॥ शाम्यत्यस्यां सस्यं शमी ॥३॥ शमयति शिमिः " खरेभ्य इ." ॥ ( उणा६०६ ) ॥ पृषोदरादित्वादित् ॥ १९६ ॥ शिनोति शिम्बिः "छविछिवि-" ॥ ( उणा-७०६)॥ इति वौ निपात्यते । स्त्रीलिङ्गावेतौ ॥ ४ ॥५॥ पिप्पलोऽश्वत्थः श्रीवृक्षः कुञ्जराशनः । कृष्णावासो बोधितरुः पलति पिप्पलः पुंस्त्रीलिङ्गः "पृपलिभ्यां टित् पिप् च पूर्वस्य" ॥ ( उणा११)॥ इत्यः, पिप्पलानि देश्यां पत्राणि, तानि सन्त्यस्य वा । आपिप्लवत इति नरुक्ताः ॥ १॥ अश्वेषु तिष्ठत्यश्वत्थः, पृषोदरादित्वात् ॥ २ ॥ श्रिया युक्तो वृक्षः धीवृक्षः॥३॥ कुञ्जरैरश्यते कुञ्जराशनः ॥४॥ कृष्णस्यावासः कृष्णावासः ॥५॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy