SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ४५३ गूयते गुञ्छः “गुलुञ्छ-"॥ (उणा-१२६) ॥ इति छ निपात्यते, तत्र ॥१॥ "तुदिमदि-" ॥ (उणा-१२४) ॥ इति छकि गुच्छः ॥ २ ॥ स्तूयते स्तबकः पुंक्लीबलिङ्गः “दृकुन-" ॥ (उणा-२७) । इत्यकः ॥ ३॥ गुध्यति वेष्टते गुत्सः "गुधिगृधेस्त च" ॥ (उणा-५६८)॥ इति कित् सः ॥ ४ ॥ गुज्यते गुलुञ्छः "गुलुञ्छपिलिपिञ्छैधिच्छ-" ॥ (उणा-१२६) ।। इति छ निपात्यते, पुंस्ययम् । क्लीबेऽपि वाचस्पतिः, यदाह- ‘गुलुञ्छोऽस्त्री' इति । गुलुञ्छु-लुम्बी अपि ॥ ५॥ . अथ रजः पौष्पं परागः पुष्पाणां रजः, परागच्छति परागः ॥ १ ॥ अथ रसो मधु ॥ १९२ ॥ मकरन्दा मरन्दश्व पुष्पाणां रसः, मन्यते बहु भृङ्गैर्मधु, क्लीबलिङ्गः ॥ १ ॥ १९२ ॥ मक्यते मण्डयतेऽनेन पुष्पं मकरन्दः, मरन्दः “कुमुद-" ॥ ( उणा-२४४ ) ।। इति दे निपात्यते ॥ २ ॥ ३॥ . वृन्तं प्रस्रवबन्धनम् । वृणोति वृन्तं "पुतपित्त-" ॥ (उणा-२०४) ॥ इति ते निपात्यते, । प्रसवः पुष्पादिस्तस्य बन्धनम्', यत् कात्यः- 'बन्धनं पुष्पफलयोर्वृन्तमाहुः' ॥ १ ॥ .. प्रबुद्धो-ज्जम्भ-फुल्लानि व्याकोशं विकच स्मितम् ॥१९३ ।। उन्मिषितं विकसितं दलितं स्फुटितं स्फुटम् । प्रफुल्लो-त्फुल्ल-संफुल्लो-च्छसितानि विजृम्भितम् ॥ १९४ ॥ स्मेरं विनिद्रमुन्निद्र-विमुद्र-हसितानि च । प्रबुध्यते प्रबुद्धम् ॥ १ ॥ उज्जृम्भते उज्जृम्भम् , उद्गता जृम्भाऽस्येति वा ॥२॥ फलति विीयते फुल्लम् , " अनुपसर्गाः क्षीव-" ॥ ४ । २ । ८० ॥ इति के निपात्यते ॥ ३॥ व्याकुश्यति व्याकोशम् ॥ ४॥ विकचते विकचम् ॥५॥ स्मयते स्मितम् ॥६॥१९३॥ उन्मिषति स्म उन्मिषितम् ॥७॥ विकसति स्म विकसितम् ॥८॥ दलति स्म दलितम् ॥९॥ स्फुटति स्म स्फुटितम् ॥ १० ॥ स्फुटति स्फुटम् ॥११॥ प्रफुल्लति प्रफुल्लम् , एवमुत्फुल्लम् , संफुलं च ॥ १२ ॥१३॥ १४ ॥ उच्छ्वसिति स्म उच्छ्वसितम् ॥ १५ ॥ विजृम्भते स्म विजृम्भितम् ॥ १६ ॥ १९४ ॥ स्मयनशीलं स्मेरं "स्म्यजस-" ॥ ५। २ । ७९।। इति रः ॥१७॥ विनिद्राति विनिद्रम् ॥१८॥ उत्क्रान्तं निन्द्रामुन्निद्रम् ॥ १९ ॥ विगता मुद्रा संकोचोऽस्य विमुद्रम् ॥२०॥ हसति स्म हसितम् ॥ २१ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy