SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ - ४ भूमिकाण्डः । ४४७ ' वृक्षोऽगः शिखरी च शाखि-फलदावद्रिहरिदुर्दुमो . " : ___ जीर्णो द्रुर्विटपी कुटः क्षितिरुहः कारस्करो विष्टरः।। नन्द्यावर्त-करालिको तरु-वसू पर्णी पुलाक्यहिपः । __ साला-ऽनोकह-गच्छ-पादप-नगा रूक्षाऽगमौ पुष्पदः ॥१८॥ वृश्च्यते छिद्यते वक्षः "ऋजिरिषि-" ॥ (उणा-५६७) ॥ इति कित् सः, वृक्षते वृणोति वा ॥ १ ॥ न गच्छत्यगः ॥ २ ॥ शिखरं शिरोऽस्त्यस्य शिखरी ॥ ३ ॥ शाखाः सन्त्यस्य शाखी, शिखादित्वादिन् ॥ ४ ॥ फलं ददाति फलदः ॥ ५ ॥ अद्यते अद्रिः "तङ्किवकि-" ॥ ( उणा- ६९२ ) ॥ इति रिः ॥ ६ ॥ हरिं वर्ण द्रवति हरिद्रुः, “हरिपीत-" ॥ ( उगा-७४५) ॥ इति डिदुः ॥ ७ ॥ द्रुः शाखाऽस्त्यस्य द्रुमः "शुद्रोमः" ॥७२॥३७॥ रिति मः ॥८॥ जीर्यते जीर्णः "इणुर्विशा-" ॥ ( उणा- १८२ ) ॥ इति णः ॥ ९ ॥ द्रवति द्रुः “द्रुभ्याम्" ॥ ( उणा७४४ ) ॥ इति डिदुः ॥ १० ॥ विटपो विस्तारोऽस्यास्ति विटपी ॥ ११ ॥ 'कुठिः सौत्रः' कोठति कुठः “नाम्युपान्त्य-" ॥ ५। १। ५४ ॥ इति कः ॥ १२ ।। क्षितौ रोहति क्षितिरुहः, मूलविभुजादित्वात् कः, यौगिकत्वात् कुज-महील्हादयः ॥ १३ ॥ कारं करोति कारस्करः, वर्चस्कादित्वात् साधुः ॥ १४ ॥ विसृणोति विष्टरः “वेः स्वः" ॥ २।३।२३ ॥ इति षत्वम् ॥ १५ ॥ नन्दी आवर्तोऽस्य नन्द्यावर्तः ॥ १६ ॥ करालमुच्चं शिखरमस्त्यस्य करालिकः ॥ १७ ॥ तरन्त्यापदमनेन तरुः "भृमृतृ-" ॥ (उमा- ७१६ ) ॥ इत्युः ॥ १८ ॥ वसन्ति पक्षिणोऽत्र वसुः ॥ १९ ॥ पर्णानि सन्त्यस्य पर्णी ॥ २० ॥ पोलति पुलो विस्तारः तमकति पुलाकी ॥ २१ ॥ अंहिभिर्मूलैः पिबत्यंछिपः, चरणपोऽपि ।। २२ ॥ 'सल गतौ' दन्त्यादिः सल्यते सालः, सीयते वा "भिल्लाच्छभल्ल-" ॥ ( उणा- ४६४ ) ॥ इति ले निपात्यते ॥ २३ ॥ अनिलम्भोभिरनोकहः, अनेरोकहः, अनसः शकटस्य अकं गतिं हन्तीति निर्वचनाद्वा ॥ २४ ॥ गम्यते गच्छ: “तुदिमदि-" ॥ ( उणा१२४ ) ॥ इति छक् ॥ २५ ॥ पादैर्मूलः पिबति पादपः ॥ २६ ॥ न गच्छति नगः “नगोऽप्राणिनि वा" ॥ ३ । २ । १२७ ॥ इति साधुः ॥ २७ ॥ रूक्षयति रूक्षः ॥ २८ ॥ न गच्छति अगमः ॥ २९ ॥ पुष्पाणि ददाति पुष्पदः । एते पुं. लिङ्गाः ।। ३० ॥ १८ ॥ . शेषश्चात्र वृक्षे त्वारोहकः स्कन्धी सीमिको हरितच्छदः । उरुर्जन्तुर्वह्निभूश्च ॥ कुञ्ज-निकुञ्ज-कुडङ्गाः स्थाने वृक्षैर्वृतान्तरे । . कवन्तेऽस्मिन् कुजः “कुवः कुब्-कुनौ च" ॥ ( उणा-. १२९ ) ॥ इति
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy