SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४४६ अभिधानचिन्तामणौ इति ङः ॥ १० ॥ कन्यते गम्यतेऽस्मिन् काननं "विदन - " ॥ ( उणा - २७५ ) ॥ इत्यने निपात्यते, कमनित्यस्मिन्निति वा ॥ ११ ॥ वन्यते वनं वर्षादित्वादल् ॥१२॥ ॥ १७६ ॥ दुनोति दवः, दावः ॥ ॥ १३ ॥ १४ ॥ प्रस्तारस्तु तृणाटव्यां झषोऽपि च । प्रस्तीयते प्रस्तारः ॥ १ ॥ तृणबहुलाऽटवी तृणाटवी तस्याम् ॥ २ ॥ झषति झषः ॥ ३ ॥ अपोपाभ्यां वनं वेलमारामः कृत्रिमे वने || १७७ ॥ अपोपाभ्यां परं वनं अपावृतं वनमपवनम् ॥ १ ॥ उप समीपे वनपवनम् ॥ २ ॥ वेलति वेलम् ॥ ३ ॥ आरमन्ति अस्मिन्नारामः ॥ ४ ॥ कृत्रिम उत्पादिते वने वृक्षसमूहे ॥ १७७ || निष्कुटस्तु गृहारामः कुटाद् गृहाद् निष्क्रान्तो निष्कुटः, गृहस्यारामो गृहारामः ॥ १ ॥ बाह्यारामस्तु पौरकः 5: 1 पुरस्य बहिर्भव आरामो बाह्यारामः पुरस्यायं पौरः ॥ १ ॥ आक्रीडः पुनरुद्यानं आक्रीडन्तेऽस्मिन्नाक्रीडः ॥ १ ॥ उद्यान्त्यस्मिन् उद्यानं राज्ञां लोकैः सह साधारणं वनम् । पुंक्लबिलिङ्गावेतौ ॥ २ ॥ राज्ञां त्वन्तःपुरोचितम् ॥ १७८ ॥ तदेव प्रमदवनं तदेव उद्यानं राज्ञामन्तःपुरयोग्यं प्रमदार्थ प्रमदानां वा वनं प्रमदवनं "ङयापोर्बहुलम्–” ॥ २ । ४ । ९९ ॥ इति ह्रखः ॥ १ ॥ १७८ ॥ अमात्यादेस्तु निष्कुटे | वाटी पुष्पाद् वृक्षाच्चासौ अमात्यादेरादिशब्दाद् गणिका - सार्थवाहादेर्निष्कुटे गृहोपवने वर्धते कण्टकादिभिर्वेष्टयते वाटी त्रिलिङ्ग: । पुष्पशब्दाद् वृक्षशब्दाच असौ वाटीशब्दः पुष्पाणां वृक्षाणां च वाटी पुष्पपाटी, वृक्षवाटी ॥ १ ॥ २ ॥ क्षुद्रारामः प्रसीदिका ॥ १७९ ॥ क्षुद्रो लघुरारामः क्षुद्रारामः, प्रसीदति मनोऽस्यां प्रसीदिका, पृषोदरादित्वात् ॥ ३ ॥ १७९ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy