SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ४४५ 'समानः सन्धिहन्नाभिषु अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने समनुरूपमा समन्ततो नय. तीति समानः, पुंक्लीबलिङ्गः, समन्तादनित्यनेन वा; सर्वसान्धषु हृदये नाभावकस्थानमस्येति ॥१॥ उदानो हृच्छिरोऽन्तरे । रसादीनूवं समन्ततो नयति इत्युदान ऊर्ध्वमनित्यनेन वा; हृदये शिरसि अनयोरन्तरे कण्ठे तालुनि भ्रूमध्ये च स्थानमस्येति; यदवोचाम योगशास्त्रे __ रक्तो हृत्-कण्ठ-तालु-भ्र-मध्ये मूर्धनि संस्थितः। उदानो वश्यतां नेयो गत्यागतिविशेषतः ।। १॥” इति ।। सर्वत्वग्वृत्तिको व्यानः सर्वतः सर्वस्यां त्वचि वृत्तिरस्य सर्वत्वग्वृत्तिकः, व्यानयति व्याप्नोति व्यानः व्याप्त्या अनित्यनेन वा ॥१॥ उपसंहारमाह इत्यङ्गे पञ्च वायवः ।। १७५ ॥ इति समाप्तौ अङ्गे शरीरे प्राणादयः पञ्च वायवः स्युः ॥ १७५ ॥ समाप्तोऽयं वायुकायः॥ वनस्पतिकायमाह अरण्यमटवी सत्रं वारू च गहनं झषः । कान्तारं विपिनं कक्षः स्यात् षण्डं काननं वनम् ॥ १७६॥ दवो दावः इयति भ्राम्यन्ति अस्मिन्नरण्यं पुंक्तीबलिङ्गः “धाप्राजि-" ॥( उणा-३७९)॥ इत्यन्यः, महत्त्वविवक्षायां तु अरण्यानी ॥ १ ॥ अटन्त्यस्यामटविः "छविछिवि-" ॥ ( उणा- ७०६) ॥ इति षौ निपात्यते, ड्यामटवी ॥ ॥१॥ सीदन्त्यत्र सत्रं "हुयामा-" ॥ ( उणा- ४५१)॥ इति त्रः ॥ ३ ॥ वृक्षा अत्र सन्ति वार्तम् , ज्योत्स्नादित्वादण् ॥ ४ ॥ गाह्यते गहनं "विदन-" ॥ ( उणा- २७५ )। इत्यने निपात्यते ॥ ५ ॥ झषति हिनस्ति झषः ॥ ६ ॥ काम्यते कान्तारं पुंक्लीकलिङ्गः "द्वारशृङ्गार-"॥ ( उणा- ४११) ॥ इत्यारे निपात्यते ॥ ७ ॥ विपन्ते भयेन अत्र विपिनं "विपिनाजि." ॥ ( उणा- २८४) ॥ इतीने निपात्यते ॥४॥ कषति कक्षः “मावावदि-"॥ ( उणा- ५६४ ) ॥ इति सः ॥९॥ सन्यते सेव्यते षण्डं पुंक्लीबलिङ्गः, बाहुलकातू सत्वाभावे "पञ्चमाडः" ॥ (उणा- १६०)। ... .
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy