SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४४४ अभिधानचिन्तामणौ- .. . : मारुतः स्पर्शनो दैत्यदेवः वाति वायति वा द्रव्याणि वायुः "कृवापाजि-" ॥ ( उणा- १) ॥ इत्युण् ॥ १॥ समीरयति समीरः ॥ २ ॥ समेति समिरः “ इण्धाग्भ्यां वा" ॥ (उणा-३८९ ) ॥ इति किद् रः ॥ ३ ॥ पवते पवनः ॥ ४ ॥ आशु गच्छति आशुगः ॥ ५॥ नभसः श्वास इव नभःश्वासः ॥ ६॥ नभोऽस्त्यस्य नभस्वान् ॥ ७ ॥ अनन्त्यनेन अनिलः “कल्यनि" ॥ (उणा-४८१ ) ॥ इतीलः, न निलति इति वा ॥ ८ ॥ श्वसन्त्यनेन श्वसनः ॥ ९ ॥ समीरति समीरणः ॥ १० ॥ वाति वायति वा वातः “दम्यमि-" ॥ ( उणा- २०० ) ॥ इति तः ॥११॥ अहिभिः. काम्यते अहिकान्तः॥ १२ ॥ पवते पवमानः ॥१३॥ म्रियन्ते क्षुद्रजन्तवोऽनेन मरुत् , म उत् ।। १४ ॥ प्रकम्पयति प्रकम्पनः ॥१५॥ कम्पाकश्चिह्नमस्य कम्पाकः ॥१६॥ नित्यं गतिरस्य नित्यगतिः, सदागतिरपि॥१७॥ गन्धस्य वहो गन्धवहाः, गन्धबहोऽपि ॥ १८ ॥ प्रभनक्ति प्रभञ्जनः ॥ १९ ॥ १७२ ॥ मातरि खे श्वयति मातरिश्वा "श्वन्मातरिश्वन्-" ( उणा- ९०२) इत्यनि निपात्यते ॥२०॥ जगतां प्राणो जगत्प्राणः ॥ २१ ॥ पृषद् मृगविशेषोऽश्वोऽस्य पृषदश्वः । पृषन्त्यम्बुकणा अश्वा अस्य इत्यन्ये ॥ २२ ॥ महद् बलमस्य महाबलः ॥ २३ ॥ मरुदेव मारुतः, प्रज्ञादित्वादण् ॥ २४ ॥ स्पृशति स्पर्शनः ॥ २५ ।। दैत्यानां देवो दैत्यदेवः ॥ २६ ॥ एते पुंलिङ्गाः ॥ शेषश्चात्र वाया सुरालयः प्राणः संभृतो जलभूषणः । शुचिर्वहो लोलपटः पश्चिमोत्तरदिपतिः ॥ १॥ अङ्कतिः क्षिपणुर्माा ध्वजप्रहरणश्चलः। . शीतलो जलकान्तारो मेघारिः सृमरोऽपि च ॥ २ ॥ झञ्झा स वृष्टियुक् ॥ १७३ ॥ स वायु वृष्टया युक्तः ‘झमू अदने' झमतीव झञ्झा, “झमेझः" ॥(उणा१३७) ॥१॥ १७३ ॥ प्राणो नासाग्रहन्नाभिपादाङ्गुष्ठान्तगोचरः । प्रकर्षणानयति प्राणः "क्वचित्” ॥ ५। १ । १७१ ॥ इति डः, प्रसरणेन अनित्यनेन वा नासाद्यं हृदयं नाभिः पादाङ्गुष्ठान्तश्च गोचरो यस्य स तथा ॥१॥ - अपानः पवनो मन्थापृष्ठपृष्ठान्तपाणिगः ॥ १७४ ॥ मूत्रपुरीषगर्भादीनपानयत्यपानः, अपसरणेन अनित्यनेन वा । मन्थे प्रीवापश्चाद्भागौ, पृष्ठ तदधोभागः, पृष्ठान्तो गुदः, पाणी पादपश्वाभागौ तेषु गच्छति यः स तथा ॥१॥॥ १७४॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy