SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । '४४३ धूमः स्याद्वायुवाहोऽग्निवाहो दहनकेतनम् ॥ १६९ ॥ अम्भःमूः करमालश्च स्तरीर्जीमूतवाह्यपि । धुनाति धूमः “विलिभिलि-" ॥ ( उणा- ३४० ) ॥ इति किन मः ॥ १ ॥ वायुना उह्यते वाह्यते वायुवाहः ॥२॥ अग्निना उह्यतेऽग्निवाहः ॥३॥ दहनस्य केतनं ध्वजो दहनकेतनम् ॥ ४ ॥ १६९ ॥ अम्भः सूते धूमजत्वाद् मेघानामभ्भःसूः ॥ ५ ॥ कार्यते वायुना करमालः “चात्वाल-" ॥ ( उणा- ४८० ) ॥ इत्याले निपात्यते ॥ ६ ॥ मृणाति खं स्तरीः स्त्रीलिङ्गः "तृस्तृतन्द्रि-" ॥ ( उणा७११)॥ इति ईः ॥ ७ ॥ जीमूतं वहति जीमूतवाही ॥ ८ ॥ तडिदैरवती विद्युच्चला शम्पाऽचिरप्रभा ॥ १७० ॥ आकालिकी शतहदा चञ्चला चपलाऽशनिः । सौदामनी क्षणिका च हदिनी जलवालिका ॥ १७१ ॥ ताडयति तडित् "इसृरुहि-" ॥ ( उणा-" ८८७ ) ॥ इतीत् , स्त्रीलिङ्गोऽयम् ॥१॥ ऐरावतोऽभ्रगो गजस्तस्य स्त्री ऐरावती, इरावति मेघे समुद्रे वा भवेति वा ॥२॥ विद्योतते विद्युत् स्त्रीलिङ्गः ॥ ३ ॥ चलति चला ।। ४ ॥ शाम्यति शम्पा "भापा. चणि-" ॥ ( उणा- २९६)॥ इति पः, शं पिबतीति वा । दन्त्यादिरयमिति प्राच्याः सं पिबति नायनं तेज इति व्याख्यन् ॥ ५॥ न चिरं प्रभाऽस्य अचि. रप्रभा, क्षणप्रभाऽपि ॥ ६ ॥ १७० ॥ आकालमुत्पत्तिकालं यावद् भवति आकालिकी क्षणिकत्वात् “ आकालिकमिकश्चाद्यन्ते"!। ६ । ४ । १२८ ॥ इति इकण् ॥ ७ ॥ शतदोऽब्धिरस्त्यस्याः शतदा वाडवज्योतिष्ट्वात् अभ्रादित्वादः, शतधा हादते वा पृषोदरादित्वात् ह्रस्वः ॥ ८॥ चञ्चला, चपला, अस्थैर्यात् ॥ ९ ॥ ॥ १० ॥ अश्नुतेऽशनिः पुंस्त्रीलिङ्गः “सदिवृति-" ॥ ( उणा- ६८०) ॥ इत्यनिः ॥ ११ ॥ सुदाम्ना पर्वतेन एकदिक् सौदामनी "टस्तुल्यदिशि" ॥ ६ । । ३ । २१० ॥ इत्यण् ।। १२ ॥ क्षणोऽस्त्यस्याः क्षणिका ॥ १३ ॥ हादतेऽवश्यं हादिनी ॥ १४ ।। जलेन वलति प्राणिति जलवालिका ॥ १५ ॥ १७१ ॥ ॥ समाप्तोऽयं तेजःकायः ॥ वायुकायमाहवायुः समीर-समिरौ पवना-ऽऽशुगौ नमःश्वासो नभस्वद-ऽनिल-श्वसनाः समीरणः । वातोऽहिकान्त-पवमान-मरुत्-प्रकम्पनाः कम्पाक-नित्यगति-गन्धवहः-प्रभञ्जनाः ॥ १७२ ॥ मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy