SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ छगणस्यायं छागणः || १ || करीषस्याग्निः करीषाग्निः ॥ २ ॥ कुकूलस्तु तुषानलः ॥ १६७ ॥ (6 कूयते कुकूलः पुंक्लीबलिङ्गः दुकूलकुकूल-" ॥ ( उणा - ४९१ ) ॥ इति साधुः ॥ १ ॥ तुषाणामनलस्तुषानलः ॥ २ ॥ १६७ ॥ संतापः संज्वरः सन्तापयति सन्तापः ॥ १ ॥ संज्वरयति संज्वरः ॥ २ ॥ ४४२ बाष्प ऊष्मा ॥ बाधते बाष्पः पुंक्लीबलिङ्गः " शादिबाधि " षत्वं च ॥ १ ॥ ऊषति रुजत्यूष्मा पुंलिङ्गः “ मन् मन् ॥ २ ॥ ( उणा - २९९ ) ॥ इति प " ॥ ( उणा - ९११ ) ॥ इति जिह्वाः स्युरच्चिषः । अग्नेरर्चिषः, लेढि हव्यमाभिर्जिह्वाः ॥ १ ॥ " हेतिः फीला शिखा ज्वालार्चिः हिनोत्यनया हेतिः “ सातिहेति - " ॥ ५ । ३ । ९४ ॥ इति तौ निपात्यते ॥ १ ॥ कीलति कीला पुंस्त्रीलिङ्गः ॥ २ ॥ श्यति शीखा ॥ ३ ॥ ज्वलति ज्वाला पुंस्त्रीलिङ्गः, ज्वलादित्वात् णः ॥ ४ ॥ अर्च्यतेऽचिः स्त्रीक्लीबलिङ्गः "रुच्यर्चि - " ॥ ( उणा - ९८९ ) ॥ इतीस् ॥ ५ ॥ उलक्का महत्यसैौ ॥ १६८ ॥ असौ ज्वाला महती उलक्कायति, ज्वलतीति वा : २६ ) ॥ इति के निपात्यते ॥ १ ॥ ॥ १६८ ॥ स्फुलिङ्गोऽग्निकणः " निष्कतुरुष्क" ॥ ( उणा स्फुलति संचिनोति स्फुलिङ्गः, त्रिलिङ्ग: “स्फुलिकंलि - " ॥ ( उणा -१०२ ) ॥ इतीङ्गक् । जातावपि स्त्रियां न डी, कन्दरावत् ॥ १ ॥ अलातज्वालोलका अलातस्य ज्वाला अलातज्वाला 'उल दाहे' सौत्रस्य, ज्वलतेर्वा "निष्कतुरुष्क - " ॥ ( उणा - २६ ) ॥ इति के निपातनादुल्का ॥ १ ॥ अलातमुल्मुकम् । अलति दीप्त्या मण्डयत्यलातं "कुकलि - " ॥ ( उणा - २०९ ) ॥ इत्यात ॥ १ ॥ ज्वलत्युल्मुकं “कञ्चुक - " ॥ ( उणा - ५७ ) ॥ इत्युके निपात्यते ॥२॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy